पूर्वम्: ५।२।५८
अनन्तरम्: ५।२।६०
 
सूत्रम्
अध्यायानुवाकयोर्लुक्॥ ५।२।५९
काशिका-वृत्तिः
अध्यायानुवाकयोर् लुक् ५।२।६०

मतौ इत्येव। मत्वर्थे उत्पन्नस्य छस्य लुक् भवति अध्यायानुवाकयोः अभिधेययोः। केन पुनरध्यायानुवाकयोः प्रत्ययः? इदम् एव लुग्वचनं ज्ञापकं तद्विधानस्य। विकल्पेन लुगयम् इष्यते। गर्दभाण्डशब्दो ऽस्मिन्निति गर्दभाण्डो ऽध्यायः, अनुवाको वा गर्दभान्डीयः। दीर्घजीवितः, दीर्घजीवितीयः। पलितस्तम्भः, पलितस्तम्भीयः।
न्यासः
अध्यायानुवाकयोर्लुक्?। , ५।२।५९

अनन्तरसूत्रे सूक्तसाम्नोरेव च्छस्य विहितत्वात्? प्रकरणान्तरे च क्वचिदध्यायानुवाकयोश्छस्याविधानात्? पृच्छति--"केन पुनः" इत्यादि। न ह्रसतस्तस्य लुगुपपद्यते, आह एवायं लुकम्()। अत एतदेव लुग्वचनं ज्ञापयति--अध्यायानुवाकयोश्छस्य विधानमस्तीति। "विकल्पेन च" इत्यादि। चशब्दोऽवधारणे, विकल्पेनैवेत्यर्थः। कथं पुनर्विकल्पेन लभ्यते? "विंशत्यादिभ्यस्तमडन्यतरस्याम्()" ५।२।५५ इत्यन्यरस्यांग्रहणानुवृत्तेः। यद्येवम्(), पूर्वत्रापि विकल्पेन विधिः प्राप्नोति? भण्ड्कप्लुतिन्यायेनानुवृत्तिर्भविष्यतीत्यदोषः॥
बाल-मनोरमा
अध्यायानुवाकयोर्लुक् १८३६, ५।२।५९

अध्यायानुवाकयोर्लुक्। नन्वध्यायानुवाकयोरभिधेयत्वे छस्य कथं प्राप्तिः, सूक्तसाम्नोरिति नियमादित्यत आह--अत एवेति। विधानेति। मतुप्प्रकरण एवास्मिन्सूत्रे कर्तव्ये अत्र प्रकरणे छस्य लुग्विधानसामर्थादिति कैयटः। ज्ञापकसिद्धविधानसामथ्र्यादित्यन्ये। भाष्ये तु अध्यायानुवाकयोर्वा लुग्वक्तव्यः" इति वचनमेवारब्धम्। गर्दभाण्डः गर्दभाण्डीय इति। गर्दभाण्डशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः। भाष्योदाहरणादेव क्वचिदेतन्नामकोऽध्यायोऽनुवाको वाऽन्वेष्यः।

तत्त्व-बोधिनी
अध्यायानुवाकयोर्लुक् १४१६, ५।२।५९

विधानसामथ्र्यादिति। मतुप्प्रकरण एवास्मिन् सूत्रे कर्तव्ये यदत्रास्य लुग्विधानं तत्पाक्षिकं लुकमनुमापयतीति कैयटः। तत्र कुशलः। सप्तमीसमर्थात्पथिन्शब्दात्कुशल इत्यर्थे वुन्स्यात्।