पूर्वम्: ५।२।७३
अनन्तरम्: ५।२।७५
 
सूत्रम्
पार्श्वेनान्विच्छति॥ ५।२।७४
काशिका-वृत्तिः
पार्श्वेन अन्विच्छति ५।२।७५

पार्श्वशब्दात् तृतीयासमर्थादन्विच्छति इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। अनृजुरुपायः पार्श्वम्, तेन अर्थानन्विच्छति पार्श्वकः। मायावी, कौसृतिकः, जालिकः उच्यते।
न्यासः
पार्ोनान्विच्छति। , ५।२।७४

निर्देशादेव तृतीयासमर्थविभक्तिर्लभ्यत इत्याह---"पार्(ाशब्दात्? तृतीयासमर्थात्()" इति॥
बाल-मनोरमा
पार्ोनान्विच्छति १८५१, ५।२।७४

पार्(ोनाऽन्विच्छति। तृतीयान्तात्पार्(ाशब्दादन्विच्छतीत्यर्थ संज्ञायां कन्स्यादित्यर्थः। अन्वेषणं=मार्गणम्। पार्व()आमिव पार्(ाम्नुजुरुपायः। "ऋजूपायेन अन्वेष्टव्यानर्थान्योऽनृजुनोपायेनान्विच्छति स पार्(ाक" इति भाष्यम्। तदाह--अनृजुरित्यादि।

तत्त्व-बोधिनी
पार्ोनान्विच्छति १४२६, ५।२।७४

पार्(ोनान्विच्छति। "आकर्षादिभ्यः कन्नि"त्यतः कननुवर्तते। अनृजुरिति। तीर्यगवस्थानात्पार्(ामनृजु, तत्साधम्र्यादुपयोऽपि। इह शीतोष्णपार्(ाआऽयःशूलदण्डाजिनशब्दा गौणा एव गृह्रन्ते। मुख्यार्थेभ्यस्तु प्रत्ययो न भवति, अनभिधानात्।