पूर्वम्: ५।२।७४
अनन्तरम्: ५।२।७६
 
सूत्रम्
अयःशूलदण्डाजिनाभ्यां ठक्ठञौ॥ ५।२।७५
काशिका-वृत्तिः
अयःशूलदण्डाजिनाभ्यां ठक्ठञौ ५।२।७६

अन्विच्छति इत्येव। अयःशूलदण्डाजिनाह्ब्यां तृतीयासमर्थाभ्याम् अन्विच्छति इत्येतस्मिन्नर्थे ठक्ठञौ प्रत्ययौ भवतः। तीक्ष्णः उपायः अयञ्शूलम् उच्यते। तेन अन्विच्छति आयःशूलिकः साहसिकः इत्यर्थः दम्भो दण्डाजिनम्, तेन अन्विच्छति दाण्डाजिनिकः। दाम्भिकः इत्यर्थः।
न्यासः
अयःशूलदण्डाजिनाभ्यां ठक्ठञौ। , ५।२।७५

"अयःशूलदण्डाजिनाभ्याम्()" इति। तृतीयान्तनिर्देशादेवार्थात्? तृतीया समर्थविभक्तिलंभ्यत इत्याह--"तृतीयासमर्थातभ्याम्? इति॥
बाल-मनोरमा
अयःशूलदण्डाजिनाभ्यां ठक्ठञौ १८५२, ५।२।७५

अयःशूल। अयःशूल, जण्डाजिन आभ्यां, तृतीयान्ताभ्यामन्विच्छतीत्यर्थे संज्ञायां ठक्ठञौ स्त इत्यर्थः। अयःशूलमिव अयःशूलम्। साहसमित्यर्थः। यो मृदुनोपायेनन्विष्टव्यानर्थास्तीक्ष्णोपायेनान्विच्छति स आयःशूलिक" इति भाष्यम्। तदाह--तीक्ष्णोपाय इत्यादि। दम्भ इति। दम्भार्थत्वाद्दण्डाजिनशब्दो दम्भे लाभणिक इति भावः।