पूर्वम्: ५।३।११३
अनन्तरम्: ५।३।११५
 
सूत्रम्
आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्॥ ५।३।११४
काशिका-वृत्तिः
आयुधजीविसङ्क्घाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात् ५।३।११४

आयुधजीविनां सङ्घः आयुधजीविसङ्घः। स वाहीकैर् विशेष्यते। वाहीकेषु य आयुधजीविसङ्घः, तद्वाचिनः प्रातिपदिकात् ब्राह्मणराजन्यवर्जितात् स्वार्थे ञ्यट् प्रत्ययो भवति। ब्राह्मणे तद्विशेषग्रहणम्। राजन्ये तु स्वरूपग्रहणम् एव। टकारो ङीबर्थः, तेन अस्त्रियाम् इति न अनुवर्तते। कौण्डिबृस्यः, कौण्डीवृस्यौ, कौण्डीवृसाः। क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः। मालव्यः, मालव्यौ, मालवाः। स्त्रियाम् कौण्दिवृसी। क्षौद्रकी। मालवी। आयुधजीविग्रहणं किम्? मल्लाः। शयण्डाः। सङ्घग्रहणं किम्? सम्राट्। वाहीकेसु इति किम्? शबराः। पुलिन्दाः। अब्राह्मणराजन्यातिति किम्? गोपालवा ब्राह्मणाः। शालङ्कायना राजन्याः।
न्यासः
आयुधजीविसङ्घाञ्ञ्यङ्वाहीकेष्वब्राआहृणराजन्यात्?। , ५।३।११४

"वाहीकेषु" इति। निर्धारणे २।३।४१ सप्तमी। "वाहोकेषु मध्ये य आयुधजीविसङ्घः" इति। निधरिम्ञ्च समानजातीयस्यैव भवतत्यायुधजीविसङ्घोऽपि वाहीक एव विज्ञायते। अथ वा--देशवाचिनो वाहोकशब्दादधिकरण एवैषा सप्तमी; वाहिकदेशविशेष आयुधजीविसङ्घो वसतीति। "ब्राआहृणे तद्विशेषग्रहणम्()" इति। अथ स्वरूपग्रहणं कस्मान्न भवति? अत एव प्रतिषेधात्()। यदि स्वरूपग्रहणं स्यात्(), ब्राआहृणप्रतिषेधोऽनर्थकः स्यात्()। प्राप्तिपूर्वको हि प्रतिषेधो भवति। ब्राआहृणशब्द आयुधजीविसङ्घो वाहीकेषु न विद्यत इति किं ब्राआहृणप्रतिषेधेन! ब्राआहृणविशेषवाचितस्तु ये गोपालप्रभृतयः शब्दास्तद्वाच्या आयुध जीविङ्घा वाहीकेषु भवन्ति; तत्र यदि प्रतिषेधो न क्रियेत, तदा तेभ्योऽपि स्यात्()। अतस्तन्निवृत्त्यर्थोऽर्थवान्? विशेषग्रहणे प्रतिषेधो भवति। तस्मात्()--"ब्राआहृणे तद्विशेषग्रहणम्(), राजन्ये तु स्वरूपाग्रहणमेव" इति। तद्वाच्यस्यायुधजीविसङ्घस्य वाहीकेषु सत्त्वात्(); "स्व रूपं शब्दस्याशब्दसंज्ञा" इति वचनाच्च। "तेन" इत्यादि। यस्माद्? ङीबर्थोत्र टकारः कृतस्तेन "अस्त्रियाम्" ५।३।११३ इति नानुवत्र्तते। तदनुवृत्तौ ञ्यट्प्रत्ययान्तं स्त्रियां न भवतीति ङीबर्थं टित्करणनर्थकं स्यात्()। तस्मादस्त्रियामिति निवृत्तम्(), अतः स्त्रियामपि भवति। "कौण्डीबृसी" "क्षौद्रकी" इति। "हलस्तद्धितस्य" ६।४।१५० इति यकारलोपः॥