पूर्वम्: ५।३।११२
अनन्तरम्: ५।३।११४
 
सूत्रम्
व्रातच्फञोरस्त्रियाम्॥ ५।३।११३
काशिका-वृत्तिः
व्रातच्फञोरस्त्रियाम् ५।३।११३

नानाजातियाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः। व्रातवाचिभ्यः प्रातिपदिकेभ्यः च स्वार्थे ञ्यः प्रत्ययो भवत्यस्त्रियाम्। कापोतपाक्यः, कापोतपाक्यौ, कपोतपाकाः। व्रैहिमत्यः, व्रैहिमत्यौ, व्रीहिमताः। च्फञः खल्वपि कौञ्जायन्यः, कौञ्जायनयौ, कौञ्जायनाः। ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नयनाः। अस्त्रियाम् इति किम्? कपोतपाकी। व्रीहिमती। कौञ्जायनी। ब्राध्नायनी।
न्यासः
व्रातच्फञोरस्त्रियाम्?। , ५।३।११३

"व्रातवाचिभ्यः" इति। अथ स्वरूपस्यैव ग्रहणं कस्मान्न भवति? च्फञोरल्पाच्तरस्य परनिपातात्(); स हि लक्षणान्तरानपेक्षतामाचष्टे। तेन "स्वं रूपं शब्दस्य १।१।६७ इत्येतदपीह नापेक्ष्यत इति न भवति स्वरूपग्रहणम्()। "कौञ्जायान्यः" इति। "गोत्रे कुञ्जादिभ्यश्च्फञ्()" ४।१।९८ "कौञ्जायनो" इति। "जतेरस्त्रीविषयात्()" ४।१।६३ इति ङीष्()। जातित्वं तु "गोत्रं च चरणैः सह" (मा।भा। २ २२५) इति॥
बाल-मनोरमा
ब्राआतच्फञोरस्त्रियाम् १०८४, ५।३।११३

ब्राआतच्फञोः। ब्राआतश्च च्फञ्च इति द्वन्द्वाद्व्यत्यनेन पञ्चम्यर्थे षष्ठी। तदाह--ब्राआतवाचिभ्य इति। स्वार्थे ञ्यः स्यादिति। "पूगाञ्ञ्योऽग्रामणीपूर्वा"दित्यतो "ञ्य" इत्यनुवर्तते। स च स्वार्थिकः, "ञ्यादयः प्राग्वुनः" इति स्वार्थिकेषु परिगणनादिति भावः। कौञ्जायन्य इति। कुञ्जस्य गोत्रापत्यमिति विग्रहः। च्फञि चञावितौ। आयन्नादेशः, आदिवृद्धिः, ततो ञ्यः, ञकार इत्, "यस्येति चे"त्यकारलोपः। तद्वाजत्वादिति। "ञ्यादयस्तद्राजाः" इति वचनादिति भावः। लुग्वक्ष्यते इति। "तद्राजस्य बहुषु-इत्यनेने"ति शेषः। ब्राआध्नायन्य इति। ब्राध्नस्य गोत्रापत्यमिति विग्रहः। च्फञादि पूर्ववत्। व्यविधावस्त्रियामित्यस्य प्रयोजनमाह--स्त्रियां कौञ्जायनीति। कुञ्स्यापत्यं स्त्रीति विग्रहः। स्त्रीत्वादिह न ञ्यप्रत्यय इति भावः। अदन्तत्वादिह टापमाशङ्क्याह--गोत्रत्वेनेति। कृते तु ञ्यप्रत्यये योपधत्वाज्जातिलक्षणङीषभावे टाप् स्यादिति भावः। च्फञ्विधौ गोत्रग्रहणस्य प्रयोजनमाह--अनन्तरात्पत्ये कौञ्जिरिति।

बाल-मनोरमा
आयुधजीविसङ्घाञ्ञ्यड्वाहीकेष्वब्राआहृणराजन्यात् , ५।३।११३

आयुधजीवि। बाहीकेष्विति। बाहीकाख्यग्रामविशेषेष्वित्यर्थः। क्षौद्रक्य इति। क्षुद्रको नाम कश्चिदायुधजीविनां बाहीक देशवासिनां सङ्घः। स एव क्षौद्रक्यः। मालव्य इति। मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनांसङ्घः। स एव मालव्यः। टित्त्वान्ङीबिति। एवं च अस्त्रियामिति नात्र सम्बध्यत इति भावः। तद्विशेषेति। व्याख्यानादिति भावः।

तत्त्व-बोधिनी
व्रातञ्फञोरस्त्रियाम् ९०७, ५।३।११३

ब्राआतच्फञो। "पूगाञ्()ञ्योऽग्रामणी"त्यतोऽनुवर्तनादाह---ञ्यः स्यादिति। व्रातवाचिभ्यः "कापोतपाक्यः"इत्युदाहरिष्यति। अस्त्रियां किम्()। कपोतपाका स्त्री। तद्राजत्वादिति। "ञ्यादयस्तद्राजाः"इति सूत्रेणे"ति शेषः। लुग्वक्ष्यत इति। "तद्राजस्य बहुषु"इत्यनेने"ति शेषः। कौञ्जायानीति। इह सति ञ्याप्रत्यये योपधत्वात् "जातेः"इति ङीषबावे चापि रूपे स्वरे च विशेषो बोध्या इत्याहुः।