पूर्वम्: ५।३।१२
अनन्तरम्: ५।३।१४
 
सूत्रम्
वा ह च च्छन्दसि॥ ५।३।१३
काशिका-वृत्तिः
वा ह च च्छन्दसि ५।३।१३

किमः सप्तम्यनताद् वा हः प्रत्ययो भवति छन्दसि विसये। यथाप्राप्तं च। क्व। कुह। कुत्रचिदस्य सा दूरे क्व ब्राह्मणस्य चावकाः।
न्यासः
वा ह च च्छन्दसि। , ५।३।१३

बाल-मनोरमा
वा ह च च्छन्दसि १९३६, ५।३।१३

वाह च छन्दसि। "हे"ति लुप्तुप्रथमाकम्। किमः सप्तम्यन्तात् हप्रत्ययः, स्यादित्यर्थः। चादत्, त्रल्च। यद्यपि वैदिकप्रक्रियायामिदमुपन्यसनीयं, तथापि वाग्रहणस्य पूर्वसूत्रेऽपकर्षज्ञानायाऽत्र तदुपन्यासः।

तत्त्व-बोधिनी
वा ह चच्छन्दसि १४७७, ५।३।१३

वा ह च छन्दसि। पूर्वोक्तस्य वाग्रहणापकर्षणस्य स्फुटीकरणार्थमिदमुपन्यस्तम्। अत इति। एतस्माद्ग्रामादित्यर्थः।

दृशिग्रहणाद्भवदीदियोग एव। तत्रभवन्तमिति। ततो भवता तत्र भवता। ततो भवते थत्रभवते इत्यादि। एवमिति। ततो दीर्घायुस्तत्र दीर्घायुरित्याद्यूह्रमित्यर्थः। सदेति। "सर्वस्य सोऽन्यतरस्यां दी"ति सभावः। कदेति। "किमः कः"।