पूर्वम्: ५।३।२४
अनन्तरम्: ५।३।२६
 
सूत्रम्
किमश्च॥ ५।३।२५
काशिका-वृत्तिः
किमश् च ५।३।२५

किंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। केन प्रकारेण कथम्। योगविभागः उत्तरार्थः।
लघु-सिद्धान्त-कौमुदी
किमश्च १२२०, ५।३।२५

केन प्रकारेण कथम्॥
लघु-सिद्धान्त-कौमुदी
इति प्राग्दिशीयाः १४ १२२०, ५।३।२५

लघु-सिद्धान्त-कौमुदी
अथ प्रागिवीयाः १२२०, ५।३।२५

न्यासः
किमश्च। , ५।३।२५

"योगविभाग उत्तरार्थः" इति। "था हेतौ च" ५।३।२६ इति वक्ष्यति, स किम एव यथा स्यात्(), इदमो मा भूदिति॥
बाल-मनोरमा
किमश्च , ५।३।२५

किमश्च। "प्रकारवृत्तेस्थमु"रिति शेषः। कथमिति। "किमः कः" इति कादेशः।

**** इति बालमनोरमायाम् प्राग्दिशीयानां विभक्तिसंज्ञकानां पूर्णोऽवधिः। ****

अथ प्रागिवीयाः।

-----------

तत्त्व-बोधिनी
किमश्च १२३५, ५।३।२५

किमश्च। योगविबागः "था हेतौ च छन्दसी"त्युत्तरसूत्रे किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति।

इति तत्त्वबोधिन्याम प्राग्दिशीयानां पूर्णोऽवधिः।