पूर्वम्: ५।३।४३
अनन्तरम्: ५।३।४५
 
सूत्रम्
एकाद्धो ध्यमुञन्यारयाम्॥ ५।३।४४
काशिका-वृत्तिः
एकाद् धो द्यमुञन्यतरस्याम् ५।३।४४

एकशब्दात् परस्य धाप्रत्ययस्य ध्यमुञादेशः भवत्यन्यतरस्याम्। एकधा राशिं कुरु, ऐकध्यं कुरु। एकधा भुङ्क्ते, ऐकध्यं भुङ्क्ते। प्रकरणादेव लब्धे पुनर् धाग्रहणम् विधार्थे विहितस्य अपि यथा स्यात्। अनन्तरस्य एव ह्येतत् प्रत्प्नोति।
न्यासः
एकाद्धो ध्यमुञन्यतरस्याम्?। , ५।३।४४

"ऐकध्यं कुरु" इति। अधिकरणविचाल उदाहरणम्()। ऐकध्यं भुङ्क्ते" इति। विधार्थे। अत्र धाग्रहणमनुवत्र्तते, न च तत्र विध्यर्था वृत्तियुक्ता; पूर्वमेव विहितत्वात्()। तस्मादनुवृत्तिसामथ्र्यात्? स्थानित्वं धाप्रत्ययस्य विज्ञायत इत्()याह--"प्रकरणादेव लब्धे" इति। धाप्रत्ययस्य स्थानित्व इति शेषः। किं पुनः कारणमसति धाग्रहणे विधार्थे विहितस्य न भवति? इत्याह--"अनन्तरस्यैव हि" इत्यादि। असति हि पुनर्धाग्रहणे "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या। प। १९) इत्यधिकरणविचालार्थे यो विहितस्तस्यैव स्यात्(), न तु विधार्थे यो विहितस्तस्य। पुनर्धाग्रहणे तु सति धामात्रस्यादेशः सिद्धो भवति॥
बाल-मनोरमा
एकाद्धो ध्यमुञन्यतरस्याम् , ५।३।४४

एकाद्धो। एकात्-ध इति च्छेदः। धाशब्दस्य "ध" इति षष्ठ()एकवचनम्। एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशः स्यादित्यर्थः। ऐकध्यमिति। नच एकशब्दात् ध्यमुञ्प्रत्ययः स्वतन्त्रो विधीयतां नतु धाप्रत्ययस्यादेश इति वाच्यं, तथा सति अधिकरणविचाल एव सन्निहितत्वादापत्तेः।

तत्त्व-बोधिनी
एकद्धो ध्यमुञन्यतरस्याम् १४९०, ५।३।४४

एकाद्धो। शब्दप्रधानत्वात्सर्वनामकार्याऽभावः। इह प्रकरणादेव सिद्धे पुनर्धाग्रहणं विधार्थे विहितस्यापि यथा स्यात्। "अनन्तरस्ये"ति न्यायेनाधिकरणविचाले विहितस्यैव हि प्राप्नोतीति वृत्तिपदमञ्जार्योः स्पष्टम्। एतेन ध्युमञ् स्वतन्त्र एव प्रत्ययोऽस्त्वित्याशङ्का परास्ता। ऐकध्यमिति। विधार्थे---"एकेध्यं भुङ्क्ते"। अधिकरणविचाले तु--ऐकध्यं राशिं कुर्वि "त्यादि ज्ञ्यम्। एवमग्रेऽपि द्वैधमिच्यादौ योज्यम्।