पूर्वम्: ५।३।४४
अनन्तरम्: ५।३।४६
 
सूत्रम्
द्वित्र्योश्च धमुञ्॥ ५।३।४५
काशिका-वृत्तिः
द्वित्र्योश् च धमुञ् ५।३।४५

धा इत्यनुवर्तते। द्वित्र्योः सम्बन्धिनो धाप्रययस्य विधार्थे अधिकरणविचाले च विहितस्य धमुञादेशो भवति अन्यतरस्याम्। चकारो विकल्पानुकर्षणार्थः। द्विधा, द्वैधम्। त्रिधा, त्रैधम्। धमुञन्तात् स्वार्थे डदर्शनम्। मतिद्वैधानि संश्रयन्ते। मतित्रैधानि संश्रयन्ते।
न्यासः
द्वित्र्योश्च धमुञ्। , ५।३।४५

"मतिद्वैधानि" इति। ननु च स्वार्थिकाः प्रकृतिधरहृआननुवत्र्तन्त इति लिङ्गसंख्याभ्यामत्र न भवितव्यम्()? नैव दोषः; अतिवत्र्तन्ते हि कदाचित्? स्वार्थिकाः प्रकृतिधर्मान्? यथा--चत्वार एव वर्णाश्चातुर्वण्र्यमिति॥
बाल-मनोरमा
द्वित्र्योश्च धमुञ् , ५।३।४५

द्वित्र्योश्च धमुञ्। षष्ठी पञ्चम्यर्थे। "ध" इति "अन्यतरस्या"मिति चानुवर्तते। तदाह--आभ्यामिति। "परस्ये"ति शेषः।

धमुञन्तादिति। वार्तिकमिदम्। दृशिग्रहणात्क्वचिदेवायम्। पति द्वैधानीति। "तृणानी"ति शेषः। "द्वैध"मित्यस्माड्डप्रत्यये टिलोपे रूपम्। नच "तसिलादयः प्राक् पाशपः" इति डप्रत्ययान्तस्याप्यव्ययत्वं शह्क्यं, स्वभावतः सत्त्ववचनत्वेनाऽव्ययत्वाऽसंभवात्, "द्वैधानी"ति भाष्यप्रयोगाच्च।