पूर्वम्: ५।३।५२
अनन्तरम्: ५।३।५४
 
सूत्रम्
भूतपूर्वे चरट्॥ ५।३।५३
काशिका-वृत्तिः
भूतपूर्वे चरट् ५।३।५३

पूर्व भूतः इति विगृह्य सुप्सुपेति समासः। भूतपूर्वशब्दो ऽतिक्रान्तकालवचनः। प्रकृतिविशेषणं च एअत्। भूतपूर्वत्वविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे चरट् प्रत्ययो भवति। आढ्यो भूतपूर्वः आढ्यचरः। सुकुमारचरः। टकारो ङीबर्थः। आढ्यचरी।
न्यासः
भूतपूर्वे चरट्?। , ५।३।५३

किमर्थं पुनरेतौ समानार्थो शब्दावुपदिश्येते, नान्यतर एवोपदिश्येत? नैवं शक्यम्(); इह ह्रतिक्रान्तकालविशिष्टेऽर्थे वत्र्तमानात्? प्रत्यग्रहमिष्यते, स चातिक्रान्तः कालोऽन्यतरोक्तौ नैव गृह्रते। तथा हि--भूतशब्दो वत्र्तमानेऽप्यर्थे वत्र्तते, यथा--भूतवानिति, पूर्वशब्दस्तु दिग्देशयोरपि। तस्मादन्यतरोक्तावतिक्रान्तकालो न प्रतीयते। अत एवाऽ‌ऽह--"भूतपूर्वशब्दोऽतिक्रान्तकालवचनः" इति। अथ चकारस्य "चुट्()" (१।३।७) इतीत्संज्ञा कस्मान्न भवति? अनित्यत्वात्तस्य विधेः। अनित्यत्वं तु तत्रैव प्रतिपादितम्॥
बाल-मनोरमा
भूतपूर्वे चरट् , ५।३।५३

भूतपूर्वे चरट्। भूतपूर्वे वर्तमानात्प्रातिपदिकात्स्वार्थे चरट् स्यादित्यर्थः।

तत्त्व-बोधिनी
भूतपूर्वे चरट् १४९५, ५।३।५३

भूतपूर्वे। अत्र वर्तमानाच्चरट् स्यात्। "गोष्ठात् खञि"त्यत्रैव नोक्तं, विशेषविहितेन खञा चरटो बाधा मा भूदिति। संनिधौ हि सामान्यविशेषभावः स्फुटीभवति। यद्यपि दूरस्थस्यापि बाधो न्याय्य एव, तथापीह गौरवं स्वीकृत्य दूरे पाठसामथ्र्याद्बाधो नेति भावः।