पूर्वम्: ५।३।५३
अनन्तरम्: ५।३।५५
 
सूत्रम्
षष्ठ्या रूप्य च॥ ५।३।५४
काशिका-वृत्तिः
षष्ठ्या रूप्य च ५।३।५४

षष्ठ्यन्तात् प्रातिपदिकात् रूप्यः प्रत्ययो भवति। चकाराच् चरट् च। षष्ठ्यन्तात् प्रत्ययविधानात् संप्रति भूतपूर्वग्रहणं प्रत्ययार्थस्य विशेषणं, न तु प्रकृत्यर्थविशेषणम्। देवदत्तस्य भूतपूर्वो गौः देवदत्तरूप्यः, देवदत्तचरः।
न्यासः
षष्ठ�आ रूप्य च। , ५।३।५४

इह षष्ठ()न्तं यत्त्द्विशेषणं परार्थत्वादप्रधानम्(), इतरत्? पुनस्तेनैवोपक्रियमाणत्वाद्विशेष्यं प्रधानम्()। प्रधानेन च कार्यसम्प्रत्यय इतदि यता षष्ठ()न्तात्? प्रत्यविधाने सम्प्रतति षष्ठ()न्तप्रतियोगिनि प्रधाने प्रत्ययो विज्ञायतो, म प्रकृत्यर्थे; तथा भूतपूर्वग्रहणं तस्यैव ज्ञायते, न प्रकृत्यर्थस्येत्येतदालोच्याऽ‌ऽह--"षष्ठ()न्तात्()" इत्यादि। प्रत्ययार्थस्तु षष्ठ()न्तस्य यः प्रतियोगी स वेदितव्यः॥
बाल-मनोरमा
षष्ठ�आ रूप्य च , ५।३।५४

षष्ठ()आ रूप्य च। "रूप्ये"ति लुप्तप्रथमाकम्। "भूतपूर्वे" इत्यनुवर्तते। षष्ठ()न्ताद्भूतपूर्वेऽर्थे इति। भूतपूर्वेऽर्थे विद्यमानात्षष्ठ()न्तादित्यन्वयः। भूतपूर्वे इत्यनुवृत्तं हि श्रुतत्वात्षष्ठ()आ विशेषणम्। भूतपूर्वे सम्बन्धे या षष्ठी तदन्तात्स्वार्थे रूप्यः स्यादिति फलति। यथाश्रुते तु स्वार्थिकप्रकरणविरोधः। कृष्णरूप्य इति। भूतपूर्वगत्या कृष्णसंबन्धी गौरित्यर्थः। शुभ्रारूप्यशब्दे "तसिलादिषु" इति पुंवत्त्वमाशङ्क्य "तसिलादयः प्राक्पाशपः" इत्यादिवार्तिकपरिगणितेषु रूप्यस्यानन्तर्भावात्तस्मिन्परे पुंवत्त्वं नेत्याह--तसिलादि()इआत्यादि। शुभ्राया भूतपूर्व इति। "गौ"रिति शेषः। शुभ्रारूप्य इति। भूतपूर्वगत्या शुभ्रासंबन्धी गौरित्यर्थः।

तत्त्व-बोधिनी
षष्ठ�आ रूप्य च १४९६, ५।३।५४

षष्ठ()आ रूप्य च। भूतपूर्व इत्यनुवर्तते। तच्च यद्यपि पूर्वत्र ङ्याप्प्रातिपदिकस्य विशेषणं, तथापीह न तथा, षष्ठ()न्तार्थस्य विशेषणत्वात्, तदाक्षिप्तस्य "संबन्धिनो गवादेः प्रधानत्वात्, प्रधानेतरसंनिधौ च प्रधाने कार्यसंप्रत्यस्य न्याय्यत्वात्। त [देत]दाह---भूतपूर्वेऽर्थे रूप्यः स्यादिति।