पूर्वम्: ५।३।७८
अनन्तरम्: ५।३।८०
 
सूत्रम्
घनिलचौ च॥ ५।३।७९
काशिका-वृत्तिः
घनिलचौ च ५।३।७९

अनुकम्पायाम् इत्यादि सर्वम् अनुवर्तते। पूर्वेण ठचि विकल्पेन प्राप्ते वचनम्। बह्वचो मनुस्यनाम्नो घनिलचित्येतौ प्रत्ययौ भवतः। चकाराद् यथाप्राप्तं च। देवियः, देविलः, देविकः, देवदत्तकः। यज्ञियः, यज्ञिलः, यज्ञिकः, यज्ञदत्तकः।
न्यासः
घनिलचौ च। , ५।३।७९

"देवियः" इति। घन्? पूर्ववल्लोपः। "देविलः" इति इलच्()। "देविकः" इति। ठन्()। "देवदत्तकः" इति कः॥
बाल-मनोरमा
घनिलचौ च , ५।३।७९

घनिलचौ च। तत्रैवेति। शेषपूरणमिदम्। "बह्वच" इति पूर्व सूत्रविषये इत्यर्थः। "अनुकम्पाया"मिति, "नीतौ च तद्युक्ता"दिति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नो घन् इलच् एतौ च प्रत्ययावित्यर्थः।

तत्त्व-बोधिनी
घनिलचौ च १५१८, ५।३।७९

घनिलचौ च। चकाराद्यथाप्राप्तमिति काशिका। इह पूर्वसूत्रेणाव ठञ् विहितः। वावचनात्कोऽपि। चकारेण तु कस्याभ्यमुज्ञेति चिन्त्यं, योगविभागे फलमपि चिन्त्यमिति हरदत्तः।