पूर्वम्: ५।३।९७
अनन्तरम्: ५।३।९९
 
सूत्रम्
लुम्मनुष्ये॥ ५।३।९८
काशिका-वृत्तिः
लुम्मनुस्ये ५।३।९८

संज्ञायाम् इत्येव। संज्ञायां विहितस्य कनो मनुस्ये ऽभिधेये लुब् भवति। चञ्चेव मनुष्यः चञ्चा। दासी। खरकुटी। मनुस्ये इति किम्? अश्वकः। उष्ट्रकः। गर्दभकः। देवपथादेराकृतिगणत्वात् तस्य एव अयं प्रपञ्चो वेदितव्यः।
न्यासः
लुम्मनुष्ये। , ५।३।९८

चञ्चे इति तृणपुरुष उच्यते। सादृश्याच्च मनुष्यश्चञ्चा। "लुपि युक्तवद्व्यक्तियचने" १।२।५१ इति प्रकृतिगतमेव लिङ्गं भवति। ननु च "मनुष्यलूपि प्रतिषेधः" (वा।२१) इति वचनाद्युक्तवद्भावो न प्राप्नोति? नैतदस्ति; विशेषणानां प्रतिषेधः, न लुबन्तस्य॥
बाल-मनोरमा
लुम्मनुष्ये , ५।३।९८

लुम्मनुष्ये। संज्ञायां चेति विहितस्येति। नतु "इवेप्रतिकृतौ" इति विहतस्य प्रतिकृतित्वाऽसंभवादिति भावः। चञ्चेव मनुष्यः चञ्चेत्युदाहरणं वक्ष्यन्चञ्चाशब्दं व्याचष्टे--चञ्चा तृणमयः पुमानिति। चञ्चेति। चञ्चातुल्यो मनुष्योऽयं चञ्चासंज्ञक इत्यर्थः। वर्ध्रिकेति। वर्ध्रि चर्ममयी प्रतिकृतिः। तत्तुल्यो मनुष्योऽयं वर्ध्रिकासंज्ञक इत्यर्थः। लुपि युक्तवत्वात्स्त्रीत्वम्। वचनं तु विशेष्यवदेव, "हरीतक्यादिषु व्यक्ति"रित्युक्तेः। तेन "चञ्चे इव मनुष्यौ" इत्यत्र चञ्चा इति न भवति।

तत्त्व-बोधिनी
लुम्मनुष्ये १५३२, ५।३।९८

चञ्चा। वर्ध्रिकेति। लुपि युक्तवद्भावात्स्त्रीलिङ्गता।