पूर्वम्: ५।४।११६
अनन्तरम्: ५।४।११८
 
सूत्रम्
अन्तर्बहिर्भ्यां च लोम्नः॥ ५।४।११७
काशिका-वृत्तिः
अन्तर्बहिर्भ्यां च लोम्नः ५।४।११७

अन्तर् बहिसित्येताभ्यां परो यो लोमन्शब्दः तदन्ताद् बहुव्रीहेः अप् प्रत्ययो भवति। अन्तर्गतानि लोमानि अस्य अन्तर्लोमः प्रावारः। बहिर्लोमः पतः।
लघु-सिद्धान्त-कौमुदी
अन्तर्बहिभ्यां च लोम्नः ९७६, ५।४।११७

आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ। अन्तर्लोमः। बहिर्लोमः॥
न्यासः
अन्तर्बहिभ्र्यां च लोम्नः। , ५।४।११७

बाल-मनोरमा
अन्तर्बहिभ्र्यां च लोम्नः ८४६, ५।४।११७

अन्तर्बहिभ्र्यां च। अन्तर्लोम इति। अन्तर्लोमानि यस्येति विग्रहः। अप्। टिलोपः। एवं बहिर्लोमः।