पूर्वम्: ५।४।११९
अनन्तरम्: ५।४।१२१
 
सूत्रम्
सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपद- प्रोष्ठपदाः॥ ५।४।१२०
काशिका-वृत्तिः
सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रएणीपदाजपदप्रोष्ठपदाः ५।४।१२०

सुप्रातादयो बहुव्रीहिसमासा अच्प्रत्ययान्ता निपात्यन्ते। अन्यदपि च टिलोपादिकं निपातनादेव सिद्धम्। शोभनं प्रातरस्य सुप्रातः। शोभनं श्वो ऽस्य सुश्वः। शोभनं दिवा अस्य सुदिवः। शारेरिव कुक्षिरस्य शारिकुक्षः। चतस्रो ऽश्रयो ऽस्य चतुरश्रः। एण्या इव पादौ अस्य एणीपदः। अजस्य इव पादावस्य अजपदः। प्रोष्थो गोः, तस्य इव पादावय प्रोष्ठपदः।
न्यासः
सुप्रातसु�आसुदिवशारिकुक्षचतुरश्रौणीपदाजपदप्रोष्ठपदाः। , ५।४।१२०

"टिलोपादिकम्" इति। आदिशब्देन सुशब्दश्च कर्मविशेषणं गृह्रते। "शोभनं प्रातरस्य" इति। शोभनमित्येतदिह कर्मणो विशेषणम्()। शोभनं प्रातःकाले कर्मास्येत्यर्थः। एवमुत्तरत्रापि शोभनमित्येतत्कर्मणो विशेषणं वेदिव्यम्()।
बाल-मनोरमा
सुप्रातसु�आसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः ८५१, ५।४।१२०

सुप्रात। सुप्रात इति। अच्प्रत्ययः।"अव्ययानां भमात्रे टिलोपः"। सु()आ इति। अच्। पूर्ववट्टिलोपः। सुदिव इति। शोभनं दिवा यस्येति विग्रहः। "दिवे"त्याकारान्तमव्ययम्। "अव्ययानां भमात्रे टिलोप" इति टिलोपः। शारिकुक्ष इति। "शारिः--पक्षिविशेषः। अचि "यस्येति चे"तीकारलोपः। चतरुआओऽश्रय इति। कोणा इत्यर्थः। अचि "यस्येति चे"तीकारलोपः। एण्या इवेति। एणी-मृगी। अजपद इति। अजः-छागः, तस्येव पादावस्येति विग्रहः। एणीपदादिषु अच् निपातनात्। "पादः पत्"।

तत्त्व-बोधिनी
सुप्रातसु�आसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः ७४३, ५।४।१२०

शोभनं प्रातस्स्येति। अधिकरणशक्तिप्रधानस्य सामानाधिकरण्याऽसम्भवात्प्रातः शब्देन प्रातस्तनं कर्म लक्ष्यत इत्याहुः। "प्रातःकल्प"मित्यत्रेव प्रातःशब्दो वृत्तिविषये शक्तिमत्पर इति सामानाधिकरण्यानुपपत्तिरित्यन्ये। एणीपदादिषु निपातनात्पद्भावः।