पूर्वम्: ५।४।१२७
अनन्तरम्: ५।४।१२९
 
सूत्रम्
द्विदण्ड्यादिभ्यश्च॥ ५।४।१२८
काशिका-वृत्तिः
द्विदण्ड्यादिभ्यश् च ५।४।१२८

द्विदण्ड्यादयः शब्दाः इच् प्रत्ययान्ताः साधवो भवन्ति। द्विदण्ड्यादिभ्यः इति तादर्थ्ये एषा चतुर्थी, न पञ्चमी। द्विदण्ड्याद्यर्थम् इच् प्रत्ययो भवति तथा भवति यथा द्विदण्ड्यादयः सिद्द्यन्ति इत्यर्थः। समुदायनिपातनाच् च अर्थविशेषे ऽवरुध्यन्ते। द्विदण्डि प्रहरति। द्विमुसलि प्रहरति। इह न भवति, द्विदण्डा शाला इति। बहुव्रीह्यधिकारे ऽपि तत्पुरुषात् क्वचिद् विधानम् इच्छन्ति। निकुच्य कर्णौ धावति निकुच्यकर्णि धावति। प्रोह्य पादौ हस्तिनं वाहयति प्रोद्यपादि हस्तिनं वाहयति। मयूरव्यंसकादित्वात् समासः। द्विदण्डि। द्विमुसलि। उभाञ्जलि। उभयाञ्जलि। उभाकर्णि। उभयाकर्णि। उभादन्ति। उभयादन्ति। उभाहस्ति। उभयाहस्ति। उभापाणि। उभयापाणि। उभाबाहु। उभयाबाहु। एकपदि। प्रोह्यपदि। आढ्यपदि। सपति। निकुच्यकर्णि। संहतपुच्छि। उभाबाहु, उभयाबाहु इति निपातनादिच्प्रत्ययलोपः। प्रत्ययलक्षणेन अव्ययीभावसंज्ञा।
न्यासः
द्विदण्ड�आदिभ्यश्च। , ५।४।१२८

"द्विदण्ड()आदिभ्य इति तादथ्र्य एषा चतुर्थी" इत्यादि। द्विदण्ड()आदयो हि प्रतपदिकेष्विच्प्रत्ययान्ता एव पठ()न्त इति तेभ्यः पुनरिज्विधातुं न शक्यते, विधीयमानोऽपि निष्प्योजनः स्यात्(), तस्मान्नेयं पञ्चमी, किं तर्हि? तादर्थ्ये चतुर्थी। द्विदण्ड()आद्यर्थमिच्()परत्ययो भवतीत्यनेन तादथ्र्यं दर्शयति। अस्यैवार्थं विस्पष्टीकर्त्तुमाह--"तत्तथा भवति" इत्यादि। एवं ब्राउवाणेन "द्विदण्ड()आदिभ्यः प्रत्ययो भवति, न द्विदण्डादिभ्यः" इत्युक्तम्()। एवं ते सिध्यन्ति; नान्यथा। अथ किमर्थं समुदायानां निपातनशुद्धा एव प्रकृतीः प्रातिपदिकेषु पठित्वा ततः प्रत्ययो दिधीयते? इत्यत आह--"समुदायनिपातनाच्च" इत्यादि। प्रातिपदिकेषु प्रकृतीः पठित्वा ताभ्यः प्रत्ययमात्रं विधीयते, ततो नियमः स्यात्()--समुदायनिपातनाद्यत्रारथविशेषे ते प्रसिद्धास्तत्रैव विशेष्यन्ते। तत्रैव भवन्तीत्यर्थः। "द्विदण्डि प्रहरति" इति। द्वौ द्डौ यस्मिन्? प्रहरणे। "इह भवति" इति। द्विदण्डीत्येतच्छब्दरूपमत्रार्थे साधुर्न भवतीत्यर्थः। "बहुव्रीह्रेधिकारात्? तत्पुरुषान्न क्वचित्? प्रत्ययविधानं स्यात्()। समुदायनिपातनात्? तु क्वचित्? तत्पुरुषादपि भवति। यदा प्रत्यस्य लोपो भवत्यव्ययोभावसंज्ञा, तदा न प्रप्नोतीत्यत आह--"प्रत्ययलक्षणेन" इत्यादि॥
बाल-मनोरमा
द्विदण्ढ�आदिभ्यश्च ८५८, ५।४।१२८

द्विदण्ड()आदिभ्यश्च। द्विदण्ड()आदिषु इदन्तानामेव निपातनात्तेभ्यः परत्वेन इच्प्रत्ययविधिरनर्थक इत्याशङ्क्य नेयं पञ्चमीत्याह--तादर्थ्ये चतुर्थ्येषेति। द्वौ दण्डाविति। कर्मव्यतिहाराभावेऽपि वैरूप्येऽपि बहुव्रीहिरिच्प्रत्ययश्च निपात्यते। द्विदण्डीति। दण्डादण्डीतिवत् प्रक्रिया। कर्मव्यतिहाराऽभावात् पूर्वपदस्य न दीर्घ इति विशेषः। द्विमुसलीति। द्वे मुसले यस्मिन् प्रहरणे इति विग्रहः। उभाहस्ति। उभयाहस्तीति। उभौ हस्तौ यस्मिन् प्रहरण इति विग्रहः। "उभयोऽन्यत्रे"ति नित्यमयचि प्राप्ते निपातनेन विकल्प्यते। कर्मव्यतिहाराभावेऽपि दीर्घश्च।

तत्त्व-बोधिनी
द्विदण्ड�आदिभ्यश्च ७४९, ५।४।१२८

द्विदण्डीति। समुदायनिपातनस्य विषयविशेषपरिग्रहार्थत्वाद्द्विदण्डा शालेत्यत्र त्विज् न भवति। उभाहस्तीत्यादि। इह निपातनादेवाऽयचः पाक्षिकत्वम्।