पूर्वम्: ५।४।१४८
अनन्तरम्: ५।४।१५०
 
सूत्रम्
पूर्णाद्विभाषा॥ ५।४।१४९
काशिका-वृत्तिः
पूर्णाद् विभाषा ५।४।१४९

पूर्णात् परस्य काकुदशब्दस्य विभाषा लोपो भवति बहुव्रीहौ समासे। पूर्णं काकुदम् अस्य पूर्णकाकुत् पूर्णकाकुदः।
लघु-सिद्धान्त-कौमुदी
पूर्णाद्विभाषा ९८०, ५।४।१४९

पूर्णकाकुत्। पूर्णकाकुदः॥
न्यासः
पूर्णाद्विभाषा। , ५।४।१४९

बाल-मनोरमा
पूर्णाद्विभाषा। ८७८, ५।४।१४९

पूर्णाद्विभाषा। पूर्णात्परस्य काकुदस्य लोपा वा स्यादित्यर्थः। पूर्णं काकुदं यस्येति विग्रहः।