पूर्वम्: ५।४।१५४
अनन्तरम्: ५।४।१५६
 
सूत्रम्
न संज्ञायाम्॥ ५।४।१५५
काशिका-वृत्तिः
न संज्ञायाम् ५।४।१५५

संज्ञायां विषये बहुव्रीहौ समासे कप् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। विश्वे देवा अस्य विश्वदेवः। विश्वयशाः।
न्यासः
न संज्ञायाम्?। , ५।४।१५५

बाल-मनोरमा
न संज्ञायाम् ८८४, ५।४।१५५

न संज्ञायाम्। शेषादिति प्राप्त इति। "अनन्तरस्ये"ति न्यायात्। "सेषाद्विभाषा" इति विहितस्य कपएवायं निषेधो, नतु व्यवहितस्य "नद्यृतश्चे"त्यादिकप इति भावः। वि()ओ देवा अस्येति। अत्र संज्ञायां समासस्य नित्यत्वाल्लौकिकविग्रहप्रदर्शनं चिन्त्यमेव।