पूर्वम्: ५।४।१५६
अनन्तरम्: ५।४।१५८
 
सूत्रम्
वन्दिते भ्रातुः॥ ५।४।१५७
काशिका-वृत्तिः
वन्दिते भ्रातुः ५।४।१५७

वन्दिते ऽर्थे यो भ्रातृशब्दो वर्तते तदन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। वन्दितः स्तुतः पूजितः इत्युच्यते। शोभनो भ्राता अस्य सुभ्राता। वन्दितः इति किम्? मूर्खभ्रातृकः। दुष्टभ्रातृकः।
न्यासः
वन्दिते भ्रातुः। , ५।४।१५७

"नद्युतश्च" ५।४।१५३ इति प्राप्तस्य कपोऽयं प्रतिषेधः। "वदि अभिवादनस्तुत्योः" (धा।पा।११) इति यद्यपि वदिरभिवादने वत्र्तते, तथापीह स्तुतावेव वत्र्तमान आश्रीयते, अत एवाह--"वन्दितः स्तुतः" इति॥ "अयमपि पूर्ववत्? प्राप्तस्य कपः प्रतिषेधः॥
बाल-मनोरमा
वन्दिते भ्रातुः ८८६, ५।४।१५७

वन्दिते भ्रातुः। पूजितेऽर्ते इति। "वदि अभिवादनस्तुत्यो"रित्युभयार्थकवदिधातोरिह उभयसाधारमपूजार्थकत्वमाश्रीयत इति भावः। प्रशस्तभ्रातेति। "नद्यृतश्चे"ति प्राप्तः कबिह निषेध्यते। सुभ्रातेति। सु=शोभनो भ्राता यस्य स इति विग्रहः। अत्रापि "नद्यृतश्चे"ति प्राप्तस्य कपो निषेधः। ननु "न पूजना"दित्येव निषेधे सिद्धे किमर्थमिदमित्यत आह--न पूजनादिति। प्रागेवेति। एवंच "नद्यृतश्चे" त्यादिकपस्तेन निषेधाऽप्राप्तौ इदं वचनमिति भावः।