पूर्वम्: ५।४।१५८
अनन्तरम्: ५।४।१६०
 
सूत्रम्
नाडीतन्त्र्योः स्वाङ्गे॥ ५।४।१५९
काशिका-वृत्तिः
नाडीतन्त्र्योः स्वाङ्गे ५।४।१५९

स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। बह्व्यः नाड्यः अस्य बहुनाडिः कायः। बहुतन्त्री ग्रीवा। धमनीवचनस् तन्त्रीशबः। स्वाङ्गे इति किम्? बहुनाडीकः स्तम्भः। बहुतन्त्रीका वीणा।
बाल-मनोरमा
नाडीतन्त्र्योः स्वाङ्गेः ८८७, ५।४।१५९

नाडीतन्त्र्योः स्वाङ्गे। बहुनाडिः काय इति। प्राणिस्थत्वात्स्वाङ्गत्वसूचनाय "काय इति विशेष्यम्। उपसर्जह्यस्वः। "नद्यृतश्चे"ति प्राप्तः कब्न भवति। बहुतन्त्रीग्र्रीवेति। बह्व्यस्तन्त्र्यो यस्या इति विग्रहः। वीणातन्तुषु तन्त्रीशब्दस्य प्रसिद्धत्वादाह--तन्त्रीर्धमनीति। बहुतन्त्रीशब्दे "गोस्त्रियो"रिति ह्यस्वमाशङ्क्याह--स्त्रीप्रत्ययान्तत्वाऽभावादिति। "अवितृ()स्तृ()तन्त्रीभ्य ईः" इत्यौणादिकस्य "स्त्रिया"मित्यधिकारेऽविहितत्वादिति भावः।

तत्त्व-बोधिनी
नाडीतन्त्र्योः स्वाङ्गे ७६६, ५।४।१५९

बहुनाडिरिति। उपसर्जनह्यस्वः। स्त्रीप्रत्ययान्तत्वाभावादिति। "अवितृ()स्तृ()तन्त्रिभ्यः"इतीप्रत्ययस्य "स्त्रिया"मित्यधिकारेऽविहितत्वादिति भावः।