पूर्वम्: ५।४।१
अनन्तरम्: ५।४।३
 
सूत्रम्
दण्डव्यवसर्गयोश्च॥ ५।४।२
काशिका-वृत्तिः
दण्डव्यवसर्गयोश् च ५।४।२

दमनं दण्डः। दानं व्यवसर्गः। दण्डव्यवसर्गयोः गम्यमानयोः पादशतान्तस्य प्रातिपदिकस्य सङ्ख्यादेः वुन्प्रत्ययो भवति, अन्तलोपश्च। अवीप्सार्थो ऽयम् आरम्भः। द्वौ पादौ दण्डितः द्विपदिकां दण्डितः। द्वौ पादौ व्यवसृजति द्विपदिकां व्यवसृजति। द्विशतिकां दण्डितः। त्रिशतिकाम्। द्विशतिकां व्यवसृजति। त्रिशतिकाम्।
न्यासः
दण्डव्यवसर्गयोश्च। , ५।४।२

"दमनं दण्डः" इति। ननु दण्डशब्दोऽयं यष्ट()आदावपि वत्र्तते? सत्यम्(); तथापीह दमने वत्र्तमानस्य ग्रहणं युक्तम्(), दमनस्यैव प्रत्ययान्तेन गम्यमानत्वात्()। "दानं व्यवसर्गः" इति। यद्येवम्(), तत्? पूर्वयोग उदाह्मतं दत्तं तदा चोपपद्यते यद्ययं योगोऽधिकविधानार्थो भवति; न त्वपवादः; तस्मान्नार्थोऽनेन योगेन? इत्यत आह--"अवीप्सार्थः" इत्यादि। तेन दानमात्रेऽनेन वुन्()। दानवीप्सायां पूर्वयोगेन पुनर्भवत्येव॥
बाल-मनोरमा
दण्डव्यवसर्गयोश्च , ५।४।२

दण्डव्यवसर्गयोश्च। बुन्स्यादिति सङ्ख्यादेः पादशताद्दण्जव्यवसर्गयोर्गम्ययोर्वुन्स्यात्प्रकृतेरन्तलोपश्चेत्यर्थः। दण्डनं-दण्डः=बलाकृत्य द्रव्यग्रहणम्। व्यवसर्गो-दानम्। ननु पूर्वेण सिद्धे किमर्थमिदमित्यत आह--अवीप्सार्थमिति। द्वौ पादौ दण्डित इति। बलाकृत्य ग्राहित इत्यर्थः।

तत्त्व-बोधिनी
दण्डव्यवसर्गयोश्च १५४३, ५।४।२

दण्डव्यवसर्ग। दण्डनं दडः। दण्डेस्चुरादित्वाद्भावे घञ्। अत्राप्युदाहरणे "तद्धितार्थ"इति समासः। स्त्रीलिह्गं च तद्धितार्थः। यद्वा प्रकृत्यर्थ एव तद्धितार्थः, स्वार्थिकत्वाद्वुनः। द्वौ पादौ दण्डित इति। "देवदत्तेन यज्ञदत्त"इति शेषः। दण्डेरप्रधाने कर्मणि क्त इति यज्ञदत्त इत्यत्र प्रथमा। द्वौ पादावित्यत्र द्विपदिकामित्यत्र च द्वितीया भवति। "दण्डिग्र्रहणार्थ"इति तु द्विकर्मकेषूक्तम्। तथा च द्विपदिकाकर्मकग्रहणविषयीभूतो यज्ञदत्त इत्यादिर्थ इति नव्याः।