पूर्वम्: ५।४।१९
अनन्तरम्: ५।४।२१
 
सूत्रम्
विभाषा बहोर्धाऽविप्रकृष्टकाले॥ ५।४।२०
काशिका-वृत्तिः
विभाषा बहोर् धा ऽविप्रक्र्ष्टकाले ५।४।२०

बहुशब्दात् क्रियाभ्यावृतिगणने वर्तमानात् विभाषा धा प्रत्ययो भवति। कृत्वसुचो ऽपवादः। पक्षे सो ऽपि भवति। अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशेषणम्। क्रियाणामुत्पत्तयश्चेदासन्नकालाः भवन्ति, न विप्रकृष्टकालाः। बहुधा दिवसस्य भुङ्क्ते, बहुकृत्वो दिवसस्य भुङ्क्ते। अविप्रकृष्टकाले इति किम्? बहुकृत्वो मासस्य भुङ्क्ते।
बाल-मनोरमा
विभाषा बहोर्धाऽविप्रकृष्टकाले , ५।४।२०

विभाषा बहोर्धा। अविप्रकृष्टकालिकक्रियाजन्मगणनवृत्तेर्बहुशब्दाद्धाप्रत्ययो वा स्यात्। पक्षे कृत्वसुच्। बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते इति। दिवसे प्रातःसङ्गवाद्यव्यवहितकालिकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः। "कृत्वोऽर्थप्रयोगे कालेऽधिकरणे" इति दिवसात्षष्ठीति हरदत्तः। शेषत्वविवक्षायां षष्ठी इति तु नवीनाः।

तत्त्व-बोधिनी
विभाषा बहोऽर्धाऽविप्रकृष्टकाले १५५५, ५।४।२०

बहुधा दिवसस्य भुङ्क्ते इति। शेषत्वविवक्षायां षष्ठी। "कृत्वोऽर्थप्रयोगे कालेऽधिकरणे"इत्यनेन षष्ठी"ति हरदत्तोक्तिस्तु नादर्तव्या, "शेषाधिकारबलेनाष्टसूत्र्याः समासनिवृत्तिफलकतया तिङन्तेनोदाहरण"मिति प्रागुक्तनिष्कर्षविरोधादित्याहुः।