पूर्वम्: ५।४।२१
अनन्तरम्: ५।४।२३
 
सूत्रम्
समूहवच्च बहुषु॥ ५।४।२२
काशिका-वृत्तिः
समूहवच् च बहुषु ५।४।२२

तत्प्रकृतवचने इत्येव। बहुसु प्रकृतेषु उच्यमानेसु समूहवत् प्रत्यया भवन्ति। चकारात् मयट् च। मोदकाः प्रकृताः प्राचुर्येण प्रस्तुताः मौदकिकम्, मोदकमयम्। शाष्कुलिकम्, शष्कुलीमयम्। अतिवर्तन्ते ऽपि स्वार्थिकाः प्रकृतितो लिङ्गवचनानि। द्वितीये सूत्रार्थे मोदकाः प्रकृताः अस्मिन् यज्ञे मौदकिको यज्ञः, मोदकमयः। शाष्कुलिकः, शष्कुलीमयः।
न्यासः
समूहवच्च बहुषु। , ५।४।२२

"मौदकिकम्()" इति। यथा समूहे "अचित्तहस्तिधेनोष्ठक्()" (४।२।४७) इति ठग्? मोदकादिभ्यो भवति; तथेहापि च मोदकशब्दात्(), स्वार्थवाचिनः पुंल्लिङ्गाच्च। स्त्रीलिङ्गादिभ्यः स्वार्थे ठग्विहितः, ततश्च "स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवत्र्तन्ते" (व्या।प। ७४) इति प्रकृतिगतेनैव लिङ्गादिना भवितध्यम्(); तत्कथमिदं प्रत्ययान्तरस्य नपुंसकलिङ्गं वचनान्तरं च? इत्यत आह--"अतिवत्र्तन्तेऽपि" इत्यादि। एतच्च "णचः स्त्रियाम्()" ५।४।१४ इत्यत्र ज्ञापितम्()॥
बाल-मनोरमा
तत्प्रकृतवचने मयट् , ५।४।२२

तत्प्रकृतवचने। "त"दिति प्रथमान्तनिर्देशः। प्राचुर्येणेति। बहुलतया उपस्थितं प्रकृतशब्देन विवक्षितमित्यर्थः। उपसर्गबलादिति भावः। प्रतिपादनमिति। बोधनमित्यर्थः। भावे इति। तथाच प्रकृतस्य बोधने सतीत्यर्थः। प्राचुर्यविशेषणकवस्तुवृत्तेः प्रथमान्तात्स्वार्थे मयडिति फलति। अत्र प्राचुर्यविशिष्टं वस्तु प्रकृतेरर्थः। प्रत्ययस्तु तद्द्योतकः। अधिकरणे वेति। तथाच प्राचुर्यविशेषकं यद्वस्तु यस्मिन्नुच्यते तदधिकरणे वाच्ये तादृशवस्तुवृत्तेः शब्दान्मयडिति फलितम्। अत्र पक्षे प्राचुर्यविशिष्टमुच्यमानं वस्तु प्रकृत्यर्थः। तदधिकरणं प्रत्ययार्थः। तन्त्रेणाऽर्थद्वये सूत्रतात्पर्यम्, व्याख्यानात्। यद्यप्याद्यपक्षे स्वार्थिकप्रकरणपाठः समञ्जसो नतु द्वितीयपक्षे, तथापि "अथ स्वार्थिकाः" इति मूलं प्रायिकाऽभिप्रायमिति न दोषः। आद्ये इति। भावल्युट्पक्षे इत्यर्थः।

प्रकृतमन्नमन्नमयमिति। प्रचुरमन्नमित्यर्थः। स्वार्थिकत्वात्प्रकृतिलिङ्गता। अपूपमय इति। प्रचुरोऽपूप इत्यर्थः। यवागूमयीति। प्रचुरा यवागूरित्यर्थः। टित्वान्ङीबिति भावः। द्विताये इति। अधिकरणल्युट्पक्षे इत्यर्थः। अन्नमयो यज्ञ इति। "इष्टिषु दशौदनाः पशौ तं सोमसहरुआ"मित्यादिवाक्यैरुच्यमानानि प्राचुर्यविशिष्टाऽन्नानीत्यर्थः। अस्वार्थिकत्वेन प्रकृतिलिङ्गत्वाऽभावाद्विशेष्यनिघ्नता। केचित्तु द्वितीयपक्षेवचनशब्दोऽधिकरणल्युङन्तः, प्रकृत्यर्थो न विवक्षित इत्याहुः। तथा सति प्राचुर्यविशिष्टान्नाद्यधिकरणं यज्ञ इत्येव बोधः, नतु उच्यमानत्वस्य बोधः।

बाल-मनोरमा
समूहवच्च बहुषु , ५।४।२२

समूहवच्च। बहुषु। तत्प्रकृतवचने इत्येव। सामूहिका इति। "तस्य समूहः" इत्यधिकारविहिताः प्रत्यया इत्यर्थः। बहुषु प्राचुर्यविशिष्टेषु वर्तमानाच्छब्दात्स्वार्थे समूहवत्प्रत्ययाः स्युरित्यर्थः। यद्वा बहुत्वविशिष्टानि प्राचुर्यविशिष्टानि वस्तूनि यस्मिन्नधिकरणे उच्यन्ते, तदधिकरणे वाच्ये तद्वस्तुवृत्तेः शब्दात्समूहवत्प्रत्ययाः स्युरित्यर्थः। आद्ये उदाहरति--मोदकाः प्रकृता मौदकिकमिति। "अचित्तहस्तिधेनो"रिति सामूहिकष्ठक्। स्वार्थिकत्वेऽपि प्रकृतिलिङ्गातिक्रमः कुटीरवत्। शाष्कुलिकमिति। शष्कुलयः प्रचुरा इत्यर्थः। पूर्ववट्ठक्, प्रकृतिलिङ्गातिकमश्च। द्वितीयेऽर्ते मौदिकको यज्ञ इति। मोदका अस्मिन्यज्ञे उच्यन्त इति विग्रहः।

तत्त्व-बोधिनी
तत्प्रकृतवचने मयट् १५५६, ५।४।२२

तत्प्रकृत। प्राचुर्येण प्रस्तुतमिति। यद्यपि प्रकृतशब्दः प्रस्तुतमात्रे रूढः, तथापि वचनग्रहणादयं विशेषो लङ्यते। वचनग्रहणं हि यादृशस्य प्रकृतस्य लोके मयटा वचनं प्रत्यायनं तत्र यथा स्यीदित्येवमर्थम्। आद्ये इथि। प्रथमान्तात्प्रकृते द्योत्ये प्रत्ययः। स्वार्थिकत्वात्प्रकृतितो लिङ्गवचनम्। "अपूपमय"मित्यपि क्वचितत्पठ()ते। प्रस्तुतोऽपूपोऽपूपमयम्। "क्वचित्स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते"। अस्मिन्पक्षे तद्ग्रहणं व्यर्थम्। द्वितीये त्वावश्यकं, ---प्रथमान्तादेव प्रत्ययलाभार्थम्। द्वितीयेत इति। अस्मिन्पक्षे उच्यमानता प्रकृतता च प्रकृत्यर्थविशेषणम्। ल्युटोक्तमधिकरणं तु मयडर्थः। अतएव विशेष्यनिघ्नता। तदाह---अन्नमयो यज्ञ इति। अन्नं प्रकृतमुच्यते अस्मिन्नित्यर्थः।

तत्त्व-बोधिनी
समूहवच्च बहुषु १५५७, ५।४।२२

मौदकिकम्। शाष्कुलिकमिति। "अचित्तहस्तिधेनोष्ठक्"।