पूर्वम्: ५।४।२३
अनन्तरम्: ५।४।२५
 
सूत्रम्
देवतान्तात्तादर्थ्ये यत्॥ ५।४।२४
काशिका-वृत्तिः
देवतान्तात् तादर्थ्ये यत् ५।४।२४

देवताशब्दान्तात् प्रातिपदिकात् चतुर्थीसमर्थात् तादर्थे यत्प्रत्ययो भवति। तदर्थ एव तादर्थ्यम्। चातुवर्ण्यादित्वात् ष्यञ्। तदिति प्रकृत्यर्थे निर्दिश्यते। आग्निदेवतायै इदम् अग्निदेवत्यम्। पितृदेवत्यम्। वायुदेवत्यम्।
न्यासः
देवतान्तात्तादर्थ्ये यत्?। , ५।४।२४

"चतुर्थोसमर्थात्()" इति। तादर्थ्ये चतुर्थी; उपसंख्यानात्()। "चतुर्थी तदर्थार्थ" २।१।३५ इति चतुर्थे भवतीति ज्ञापकाद्वा। "तादर्थ्ये चतुथ्र्या भवितव्यम्()" इति चतुर्थीसमर्थात्? प्रत्ययो विज्ञायते। तदर्थ एव तादथ्र्यमिति स्वार्थे ष्यञं दर्शयति। कथं पुनः स्वार्थे ष्यञ्()? इत्याह--"चातुर्व ष्र्यादि" इत्यादिना। चातुवैण्र्यादिसिद्ध्यर्थ स्वार्थे ष्यज उपसंख्यानं कृतम्(), अयं तु चातुर्वण्र्यादित्वात्? स्वार्थे ष्यञ। "अग्निदेवतायै" इति। अग्निश्चासौ देवतः चेति विशेषणसमासः॥
बाल-मनोरमा
देवतान्तात्तादर्थ्ये यत् , ५।४।२४

देवतान्तात्तादर्थ्ये यत्। तदर्थ एवेति। तच्छब्देन देवतान्तस्यार्थ उच्यते, तस्मै अयं तदर्थः, ततः स्वार्थे चतुर्वर्णादित्वात् ष्यञित्यर्थः। देवतान्तात्प्रातिपदिकाद्यत्स्यात्प्रकृत्यार्थे वस्तुनि वाच्य इत्यर्थः। "त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता मन्त्रस्तुत्या चे"त्युक्तं "सास्य देवते"त्यत्र अतः पितृदेवत्यं रक्षोदेवत्यमित्यादौ नाव्याप्तिः। तदाह--पितृदेवत्यमिति। देवताशब्दस्य देवा भावः। भाष्ये तु"पितृदेवत्यमिति न सिध्यती"त्याक्षिप्य "दिवैरे()आर्यकर्मणो देवः, तस्मात्स्वार्थे त"लिति समाहितम्। हविः प्रति पित्रादीनामी()आरत्वं स्वामित्यम्। हविस्तु यजमानस्य स्वम्। तच्च यजमानेन अग्न्याद्युद्देशेन त्यक्तं चेत्तदाग्न्यादिस्वामिकं भवितुमर्हति। अतो देवतात्वं त्यज्यमानद्रव्योद्देश्यत्वविसेषात्मकमेव भाष्यरीत्याऽपि पर्यवस्य तीत्यलम्।

तत्त्व-बोधिनी
देवतान्तात्तादर्थ्ये यत् १५५९, ५।४।२४

पितृदेवत्यमिति। पितरश्च ता देवताश्च पितृदेवताः। पितृदेवताभ्य इदमिति विग्रहः।