पूर्वम्: ५।४।२४
अनन्तरम्: ५।४।२६
 
सूत्रम्
पादार्घाभ्यां च॥ ५।४।२५
काशिका-वृत्तिः
पादार्घाभ्यां च ५।४।२५

तादर्थ्ये इत्येव। पादार्घशब्दाभ्यां चतुर्थीसमर्थाभ्यां तादर्थ्ये अभिधेये यत्प्रत्ययो भवति। पादर्थमुदकं पाद्यम्। अर्घ्यम्। अनुक्तसमुच्चयार्थश्चकारः। यथादर्शनम् अन्यत्र अपि प्रत्ययो भवति। एष वै छन्दस्यः प्रजापतिः। वसु, अपस्, ओक, कवि, क्षेम, उदक, वर्चस्, निष्केवल, उक्थ, जन, पूर्व, नव, सूर, मर्त, यविष्ठ इत्येतेभ्यः छन्दसि स्वार्थे यत्प्रत्ययो भवति। अग्निरीशे वसव्यस्य। अपस्यो वसानाः। द्वितीयाबहुवचनस्य अलुक्। अपो वसानाः इत्यर्थः। स्व ओक्ये। कव्यो ऽसि कव्यवाहनः। क्षेम्यमध्यवस्यति। वायुर् वर्चस्यः। निष्केवल्यं शंसन्ति। उक्थ्यं शंसति। जन्यं ताभिः। पूर्व्या विदुः। स्तोमं जनयामि नव्यम्। सूर्यः। मत्यः। यविष्ठ्यः। आमुष्यायणामुष्यपुत्रिकेत्युपसङ्ख्यानम्। समशब्दादावतुप्रत्ययो वक्तव्यः। समावद् वसति। नवस्य नू आदेशस्त्नप्तनप्खाश्च प्रत्ययाः। नूत्नम्, नूतनम्, नवीनम्। नश्च पुराणे प्रात्। पुराने वर्तमानात् प्रशब्दान् नप्रत्ययो भवति। चकारान् नप्तनप्खाश्च। प्रणम्, प्रत्नम्, प्रतनम्, प्रीणम्। भागरूपनामभ्यो धेयः प्रत्ययो वक्तव्यः। भागधेयम्। रूपधेयम्। नामधेयम्। मित्राच्छन्दसि। मित्रधेये यतस्व। आग्नीघ्रासाधरणादञ्। आग्नीघ्रम्। साधारणम्। स्त्रियां ङीप् आग्नीघ्री साधारणी। वाप्रकरनाच् च विकल्पन्ते एतान्युपसंख्यानानि, तेन यथाप्राप्तम् अपि भवति, आग्नीघ्रा शाला, साधारणा भूः इति। अयवसमरुद्भ्यां छन्दस्यञ् वक्तव्यः। आयवसे रमन्ते। मारुतं शर्धाः।
न्यासः
पादार्घाभ्याञ्च। , ५।४।२५

"छब्दस्यः" इति। सप्तवशाक्षरसमाहाराभिषायिनश्छप्दःशब्दात्? स्वार्थे यत्प्रत्ययो भवति। "द्वितीयाबहुवचनस्यालुक्()" इति। अप्शब्दाद्()द्वितीयाबहुवचनान्ताद्यति कृते "सुपो धातुप्रातपदिकयोः" २।४।७१ इति सुपो लुकि ------ , "सर्वे विषयश्छन्दसि विकल्प्यन्ते" (पु।प।वृ। ५६) इति कृत्वा। "आमुष्यायणामुष्यपुत्रिकेत्युपसंख्यानम्()" इति। विभक्तेरलुगर्थमेतदुपसंख्यानान्तरम्(), न प्रत्ययार्थम्()। आमुष्यायणमित्यमुष्यशब्दो नडादिषु पठ()ते, ततः फकि कृते विभक्तेर्लुकि प्राप्तेऽलुग्वक्तव्यः। नडादिषु सविभक्तिकस्य पाठसामथ्र्याद्ध्यलुग्भविष्यति। अमुष्यपुत्रिकेत्यत्र त्वमुष्यपुत्रशब्दो मनोज्ञादिषु पठ()त इति विभ्केर्लुकि प्राप्तेऽलुग्वक्तव्यः मनोज्ञादिषु पाठाद्वा सिद्धमिति न वक्तव्यम्()। उभयत्र "अदसोऽसेर्दादु वो मः" ८।२।८० इति मत्वोत्वे॥
बाल-मनोरमा
पादाऽर्धाभ्यां च , ५।४।२५

पादार्धाभ्यां च। "तादर्थ्ये य"दिति शेषः। अध्र्यमिति। अर्धार्थमुदकमिति विग्रहः। अर्ध--पूजा। "मूल्ये पूजाविधावर्धः" इत्यमरः।

नवस्येति। वार्तिकमिदम्। एते प्रत्यया अत्यन्तस्वार्थिकाः। नवीनमिति। नवशब्दात्खप्रत्यये, तस्य ईनादेशे प्रकृतेर्नूभावे, ओर्गुणः, अवादेशः।

नश्च पुराणे प्रादिति। वार्तिकमिदम्। चात्पूर्वोक्ता इति। त्नप्, तनप्, ख इत्यर्थः। प्रीणमिति। खे रूपम्।

भागरूपेति। वार्तिकमिदम्। आग्नीध्रेति। वार्तिकमिदम्।

आग्नीध्रमिति। अग्नीधः शरणम्--आग्नीध्रम्। ततः स्वार्थे अञि आग्नीध्रमेव। अनेकं प्रत्यविशिष्टसम्बन्धं साधारणमुच्यते। ततः स्वार्थे अञि साधारणमित्येव। अञ्विधेः प्रयोजनमाह--स्त्रिया ङीबिति।

तत्त्व-बोधिनी
पादाऽर्धाभ्यां च १५६०, ५।४।२५

अध्र्यमिति। "मूल्ये पूजाविधावर्घः" इत्यमरः। पूर्वोक्ता इति। त्नप्तनप्खप्रत्यया इत्यर्थः।

आग्नीध्रसाधारणादञ्। आग्नीध्रमिति। "अग्नीधः शरणे रण् भं चे"ति शैषिकेषु व्युत्पादितं, तच्चान्तोदात्तम्, ततः स्वार्थेऽनेनाऽञ्। आद्युदात्तत्वं फलम्। फलन्तारमप्याह----स्त्रियामिति। आग्नीध्रीति।सालेति विशेष्यम्। समानं धारणमस्याः साधारणी। अनेकं प्रत्यविशिष्टसम्बन्धो भूम्यादिः। पृषोदरादित्वात्वात्समानस्य सभावः। विभाषाप्रकरणादञभावे टाप्। आग्नीध्रा शाला। साधारणा भूमिः। नन्वञभावपक्षे समानस्य सधारण इत्येव स्यान्न त्वत्रादिवृद्धिरिति चेत्। अत्राहुः---"साधारणाद"ञित्यतएव निपातनात्, समानस्य साभावविधानाद्वा इष्टसिद्धिरिति।