पूर्वम्: ५।४।३०
अनन्तरम्: ५।४।३२
 
सूत्रम्
वर्णे चानित्ये॥ ५।४।३१
काशिका-वृत्तिः
वर्णे च अनित्ये ५।४।३१

अनित्ये वर्णे वर्तमानात् लोहितशब्दात् स्वार्थे कन्प्रत्ययो भवति। लोहितकः कोपेन। लोहितकः पीडनेन। अनित्ये इति किम्? लोहितो गौः। लोहितं रुधिरम्। लोहिताल्लिङ्गबाधनं वा वक्तव्यम्। लोहितिका कोपेन। लोहिनिका कोपेन।
बाल-मनोरमा
वर्णे चाऽनित्ये , ५।४।३१

वर्णे चाऽनित्ये। अनित्ये वर्णे विद्यमानाल्लोहितशब्दात्स्वार्थे कन्स्यादित्यर्थः। अमण्यर्थमिदम्।

लोहितकः कोपेनेति। "देवदत्तादि"रिति शेषः। कोपनिमित्तकं देवदत्तादेर्वौहित्यमनित्यमेव, कोपाऽभावे तदभावात्। यद्यपि माणिक्यमणिलौहित्यमपि अनित्यमेव, माणिक्ये नष्टे तन्नाशात्, तथापि आश्रयद्रव्यस्य उत्पत्तिप्रभृति नाशपर्यन्तं यो वर्णो वर्तते, स वर्णो नित्य इत्यभिमतमिति न दोषः। स्यादेतत्। "लोहितिकालोहितिका वा कोपेन"ति स्त्रियां रूपद्वयमिध्यते। तत्र लोहितशब्दात् "वर्णादनुदात्ता"दिति नत्वसन्नियोगशिष्टं ङीपं परत्वात्स्यार्थिकतया अन्तरङ्गत्वाच्च बाधित्वा कनि कृते सति नत्वसन्नियोगशिष्टङीपो न प्रसक्तिः, कोपधत्वेन तोपधत्वाऽभावात्। ततश्च लोहितकशब्दात् "अजाद्यतः" इति टापि "प्रत्ययस्था"दिति इत्त्वे लोहितिकेत्येव स्यान्नतु तत्र लोहिनिकेति। अत आह--लोहिताल्लिङ्गबाधनं वेति। वार्तिकमिदम्। लोहितशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः। असति तु कना ङीपो बाधे लोहिनीशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः। असति तु कना ङीपो बाधे लोहिताशब्दात्कनि "केऽणः" इति ह्यस्वे कन्नन्ताट्टपि लोहिनिकेति सिध्यति। सति तु कना ङीपो बाधे लोहिताशब्दात्कनि "केऽणः" इत#इ ह्यस्वे टापि लोहितिकेति भवति। ननु "ङ्याप् प्रातिपदिका"दित्यत्र लिङ्गविशिष्टपरिभाषयैव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तादेव तद्धिता भवन्ति, नतु ङ्याब्भ्यां प्रागित्येवमर्थमित्युक्तम्। एवंच ङीपः प्राक् कनः प्रसक्तेरेवाऽभावादिदं वार्तिकं व्यर्थमिति चेत्, अत एव वार्तिकाल्लिङ्गात्स्वार्थिकतद्धितेषु ङ्याब्ग्रहणं न संबध्यते। न च "सुबन्तात्तद्धितोत्पत्ति"रिति सिद्धान्तात् "कुत्सिते" इति सूत्रस्थभाष्यरीत्या स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकतया ङ्याबन्तादेव सुपि ततः कनि रूपसिद्धेर्वचमिदं व्यर्थमिति वाच्यम्, कारककुत्सादिप्रयुक्तकार्याणां क्रमिकतया ङ्याबन्तादेव सुपि ततः कनि रूपसिद्धेर्वचनमिदं व्यर्थमिति वाच्यम्, अत एव स्वार्थिकतद्धितानां प्रातिपदिकादेव प्रवृत्तिविज्ञानादित्यन्यत्र विस्तरः।

तत्त्व-बोधिनी
वर्णे चाऽनित्ये १५६२, ५।४।३१

वर्णे चाऽनित्ये। अनित्ये किम्()। लहितं रुधिरम्। लोहिता लाक्षा। अनित्यत्वमिह स्वसमानाधिकरणध्वंसप्रतियोगित्वाम्। अतएव "रक्ते"इत्युत्तरसूत्रं सार्थकम्। लाक्षादिना रक्ते लौहित्यस्य यावदाश्रयमवस्थानेन नित्यतया पूर्वेणाऽसिद्धेः।

लोहिताल्लिङ्गबाधनं वा। लोहितक इथि। कोपेन लोहितो यः परुषस्तस्मिन्नेव क्षणादूध्र्वं कोपशान्तौ लौहित्यं नश्यतीति भवत्यत्राऽनित्यो वर्णः। "प्रातिपदिकात्तद्धिताः"इति पक्षस्य "प्रतिपदविधानमात्रेणाऽपवादत्वे"मिति पक्षस्य चाश्रयणे "वर्णादनुदात्ता"दित्यतः प्रागेव कनि कृते लोहितिकेति रूपं न स्यादित्याशङ्कायामाह---।