पूर्वम्: ५।४।२९
अनन्तरम्: ५।४।३१
 
सूत्रम्
लोहितान्मणौ॥ ५।४।३०
काशिका-वृत्तिः
लोहितान् मणौ ५।४।३०

लोहितशब्दात् मणौ वर्तमानात् स्वार्थे कन्प्रत्ययो भवति। लोहितो मणिः लोहितकः। मणौ इति किम्? लोहितः।
बाल-मनोरमा
लोहितान्मणौ , ५।४।३०

लोहितान्मणौ। मणौ वर्तमानाल्लोहितशब्दात्स्वार्थे कन्स्यादित्यर्थः। माणिक्य मयो मणिरेवेह मणिर्विवक्षितः। यस्तु जपाकुसुमादिनिमित्तलौहित्यवान्स्फटिकमणिस्तस्य तु "रक्ते" इत्युत्तरसूत्रेण सिद्धम्।