पूर्वम्: ५।४।३४
अनन्तरम्: ५।४।३६
 
सूत्रम्
वाचो व्याहृतार्थायाम्॥ ५।४।३५
काशिका-वृत्तिः
वाचो व्याहृतार्थायाम् ५।४।३५

व्याहृतः प्रकाशितो ऽर्थो यस्यास्तस्यां वाचि वर्तमानाद् वाच्शब्दात् स्वार्थे ठक्प्रत्ययो भवति। पूर्वम्न्येन उक्तार्थत्वात् सन्देशवाग् व्याहृतार्था इत्युच्यते। वाचिकं कथयति। वाचिकं श्रद्दधे। व्याहृतार्थायाम् इति किम्? मधुरा वाक् देवदत्तस्य।
न्यासः
वाचो व्याह्मतार्थायाम्?। , ५।४।३५

"व्याह्मतः" इति। उक्त इत्यर्थः। "अन्येन" इति। सन्देष्ट्रा। न हि पूर्वं सा वाक्? संदिष्टा। तेन हि पूर्वं सन्दिशता सन्देशवाक्? भवति। यया सन्दिष्टोऽर्थोऽभिधीयते, सा च सन्देशवागुच्यते॥
तत्त्व-बोधिनी
वाचो व्याह्मतार्थयाम् १५६५, ५।४।३५

वाचो व्याह्मता। व्याह्मतार्थायां किम्()। मधुरा वाग्देवदत्तस्य।