पूर्वम्: ५।४।६९
अनन्तरम्: ५।४।७१
 
सूत्रम्
किमः क्षेपे॥ ५।४।७०
काशिका-वृत्तिः
किमः क्षेपे ५।४।७०

क्षेपे यः किंशब्दः ततः परस्य समासान्तो न भवति। किंराजा यो न रक्षति। किंसखा यो ऽभिद्रुह्यति। किंगौर्यो न वहति। किं क्षेपे २।१।६३ इति समासः। क्षेपे इति किम्? कस्य राजा किंराजः। किं सखः। किंगवः।
न्यासः
किमः क्षेपे। , ५।४।७०

"किंराजा" इति। निन्दितो राजेति विगृह्र "किं क्षेपे" २।१।६३ इति समासः। किंराज इत्यत्र प्रश्ने किंशब्दः, न क्षेपे, षष्ठीसमासः। ननु "लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्()" (व्या।प।३) इति प्रतिपदोक्तो यः किमः समासः "किं क्षेपे"(२।१।६४) इत्यनेन विहितः स एव ग्रहीष्यत इति क्षेपग्रहणमनर्थकम्()? एवं तर्हि क्षेपग्रहणेनै तदेव ज्ञापयति--इयं परिभाषा नावतिष्ठत इति। तेन बहुव्रीहावपि प्रतिषेधः सिद्धो भवति--निन्दिता धूरस्य किन्धुरं शकटम्(), निर्धरं शकटमिति॥
तत्त्व-बोधिनी
किमः क्षेपे ८१३, ५।४।७०

किमः क्षेपे। क्षेपग्रहणमिह शक्यमवक्तुं, प्रतिपदोक्तपरिभाषया "किं क्षेपे" इति विहितसमासस्यैव ग्रहणात्। किंराज इत्यादि। किमत्र प्रश्ने षष्ठीसमासः, कर्मधारयो वा।