ङसिङसोः इत्येव। ऋकारान्तादुत्तरयोः ङ्सिङसोः अति परतः पूर्वपरयोः उकार एकादेशो भवति। होतुरागच्छति। होतुः स्वम्। द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यः स लभते ऽन्यतरव्यपदेशं इति उरण् रपरः
१।१।५० इति रपरत्वम् अत्र कृत्वा रात् सस्य
८।२।२४ इति सलोपः कर्तव्यः।
"द्वयोः षष्ठीनिर्दिष्टयोः स्थाने" इत्यादि।
किं पुनर्होतुरित्यादावनिष्टं स्याद्यदि रपरत्वं न क्रियेत? न किञ्चित्(); न्यायतस्तु प्राप्नोति रपरत्वमपि, तदवश्यं कत्र्तव्यम्()। तमेव न्यायं न्यां दर्शयितुम्()--"द्वयोः षष्ठीनिर्दिष्टयोः स्थाने" इत्युक्तम्()। ऋत इति तपकरणं दिर्घनिवृत्त्यर्थम्()। तेन "उन्योर्ग्रः"
३।३।२९ "प्रे स्त्रोऽयज्ञे"
३।३।३२ इत्यादौ न भवति। उदित्येतदपि तपरकरणं दीर्घनिवृत्त्यर्थमेव, आन्तरतम्याद्()द्विमात्रस्य स्थाने द्विमात्र एव प्राप्नोति।
ननु च "भाव्यमनोऽण्? सवर्णान्? न गृह्णाति"(व्या।प।
३५) इति सवर्णानां ग्रहणं न भविष्यतीति तत्? किमेतन्निवृत्यर्थेन तपरकरणेन? एवं तह्र्रेतज्ज्ञापयति--भवत्यत्र ह्रुकरेम भाव्यमानेन सवर्णस्य ग्रहणमिति। तेनामू, अमूभ्यामित्यत्र "अदसोऽसेर्दादु दो मः"
८।२।८० इति दीर्घस्य स्थाने दीर्घ ऊकारो भवति॥
ङसिङसोस्तृज्वत्त्वे क्रोष्टृ अस् इति स्थिते--ऋत उत्। "एङः पदान्तादति" "ङसि ङसोश्चे"त्यतः-"अती"ति "ङसिङसो"रिति चानुवर्तते। "ङसिङसो"रित्यवयवषष्ठी,-"अती"त्यत्रान्वेति। "अङ्गस्ये"त्यधिकृतम् "ऋत" #इत्यनेन विशेष्यते, ततस्तदन्तविधिसत्दाह--ऋदन्तादित्यादिना। रपरत्वमिति। ऋकारस्य अकारस्य च स्थाने प्राप्नुवत उकारस्य ऋकारस्थानिकत्वानपायादिति भावः। उदिति तपरकरणं द्विमात्रनिवृत्त्यर्थम्। न च "भाव्यमानोऽसवर्णान्न गृह्णाती"त्येव तन्निवृत्तिः सिध्यतीति वाच्यं, तस्याऽनित्यत्वादिह द्विमात्रप्राप्तौ तन्निवृत्त्यर्थत्वात्। तदनित्यत्वं त्वनेनैव तपरकरणेन ज्ञाप्यते। ततश्च "यवलपरे यवला वेति मकारस्याऽनुनासिका एव भवन्ती"ति "च्छ्वो"रिति सूत्रे कैयटः। यत्तु "तपरत्वं ढ्रलोपे इति दीर्घनिवृत्त्यर्थ"मिति, तन्न। "उरण्रपरः" इति सूत्रे "ऊ,-रपरः" इति भाष्यप्रयोग विराधाता। सुपत्रवाहिता बाणा ज्वलिता इव पन्नगाः। नैरृतोरस्यभाव्यन्त सवितू रश्मयो यथा" इति रामायणप्रयोगविरोधाच्चेत्यलम्।