पूर्वम्: ६।१।११२
अनन्तरम्: ६।१।११४
 
सूत्रम्
यजुष्युरः॥ ६।१।११३
काशिका-वृत्तिः
यजुष्युरः ६।१।११७

उरःशब्दः एङन्तः यजुषि विषये अति रकृत्या भवति। उरो अन्तरिक्षम्। अपरे यजुष्युरो इति सूत्रं पठन्ति, उकारान्तम् उरुशब्दं सम्बुद्ध्यन्तम् अधीयते, ते इदम् उदाहरन्ति उरो अन्तरिक्षं सजूः इति। यजुषि पादानाम् अभावातनन्तःपादर्थं वचनम्।
न्यासः
यजुष्युरः। , ६।१।११३

"उरो अन्तरिक्षम्()" इति। उरःशब्दस्योत्त्वम्, "आद्? गुणः" इति गुणः। "ओकारान्तमुरोशब्दं ["उकारान्तमुरुशब्द"--काशिका] सम्बुद्ध्यन्तमधीयते" इति। उरुशब्दस्य "सम्बुद्धौ च" ७।३।१०६ इति गुणे कृते "उरो" इति भवति॥