पूर्वम्: ६।१।११४
अनन्तरम्: ६।१।११६
 
सूत्रम्
अङ्ग इत्यादौ च॥ ६।१।११५
काशिका-वृत्तिः
अङ्ग इत्यादौ च ६।१।११९

अङ्गशब्दे य एङ् तदादौ चाकारे यः पूर्वः स यजुसि विषये अति प्रकृत्या भवति। ऐन्द्रः प्राणो अङ्गे अङ्गे अदीध्यत्। ऐन्द्रः प्राणो अङ्गे अङ्गे निदीध्यत्। ऐन्द्रः प्राणो अङ्गे अङ्गे अरोचिषम्।
न्यासः
अङ्ग इत्यादौ च। , ६।१।११५

"अङ्ग इत्यादौ च" इति। इतिकरणेनान्तरोक्तोऽङ्गशब्दः प्रत्यवमुश्यते। "तदादौ चाकारे" इति। समानाधिकरणे सप्तम्यौ। तच्छब्देनातिक्रान्तप्रत्यवमर्शिनेतिकरणस्यार्थमाचष्टे--तदादाविति। अङ्गशब्दादावित्यर्थः। "यः पूर्वः" इति। "एङ्" इति सम्बध्यते। चकारोऽङ्गशब्दस्यादौ योऽकारसतत्राप परतः पूर्वस्यैङः प्रकृतिभावो यथा स्यादिति समुच्चयार्थः क्रियते। तत्र ह्रसत्यङ्गशब्दाकारे परतोऽङ्गशब्दस्य य एङ् तस्यैव प्रकृतिभावः स्यात्()। यस्त्वङ्गशब्दे परतोऽनङ्गशब्दस्यैङ् तत्र न स्यात्()। "प्राणो अङ्गे" इत्यादि। अत्र प्राणो-शब्दे य एङ् अङ्गशब्दादावकारे प्रकृत्या भवति। "अङ्ग अङ्गे अदीध्यत्()" इति। अत्राङ्गशब्दे य एङ् तस्याङ्गशब्दादावकारेऽदीध्यच्छब्दादौ प्रकृतिभावो भवति॥