पूर्वम्: ६।१।१११
अनन्तरम्: ६।१।११३
 
सूत्रम्
अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च॥ ६।१।११२
काशिका-वृत्तिः
अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युसु च ६।१।११६

अव्यातवद्यातवक्रमुः अव्रत अयम् अवन्तु अवस्यु इत्येतेषु वकारयकारपरे ऽप्यति परतः अन्तःपादम् एङ् प्रकृत्या भवति। अग्निः प्रथमो वसुभिर्नो अव्यात्। मित्रमहो अवद्यात्। मा शिवासो अवकृअमुः। ते नो अव्रताः। शतधारो अयं मणिः। ते नो अवन्तु पितरः। कुशिकासो अवस्यवः।
न्यासः
अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च। , ६।१।११२

"नो अव्यात्()" इति। अस्मादो द्वितीयबहुवचनान्तस्य "बहुवचनस्य वस्नसो" ८।२।२१ इति नसि रुत्वे "अतो रोरप्लुतादप्लुते" (६।१।११३) इत्युत्त्वे "आद्? गुणः" ६।१।८४ इति गुणे कृते "नो" इति भवति। "अव रक्षणे" (धा।प।६००) इत्यस्मादाशिषि लिङि यासुटि तिपि "इतश्च" ३।४।९७ इतीकारलोपे "स्कोः संयोगाद्योरन्ते च" ८।२।२९ इति सकरलोपे च कृते "अव्यात्()" इति भवति। "अवद्यात" इति। अवद्यशब्दोऽयं पञ्चम्येकवचनान्तः। "अवक्रमुः" इति। अवपूर्वात्? क्रमेर्लिट()उसि रूपमेतत्()। अन्ये तु लुङि वर्णयन्ति--"बहुलं छन्दसि" २।४।७६ इति च्लेः श्लुः, "श्लौ" ६।१।१० इति द्विर्वचनम्(), जुस्भावश्छान्दसः। "अवन्तु" इति। अवतेर्लोट्(), झेरन्तादेशः, "एरुः" ३।४।७६ इत्युत्त्वम्()। "अवस्यवः" इति। अवतेः "सर्वधातभ्योऽसुन्()" (द।उ।९।४९) इति असुन्()--अवस्? इति, ततः "सुप आत्मनः क्यच्()" ३।१।८ इति क्यच्(), तदन्तात्? "क्याच्छन्दसि" ३।२।१७० इत्युप्रत्ययः, ततो जस्(), "जसि च" ७।३।१०९ इति गुणः--ओकारः, "एचोऽयवायावः" ६।१।७५ इत्यवादेशः॥