पूर्वम्: ६।१।१२९
अनन्तरम्: ६।१।१३१
 
सूत्रम्
सोऽचि लोपे चेत् पादपूरणम्॥ ६।१।१३०
काशिका-वृत्तिः
सो ऽचि लोपे चेत् पादपूरणम् ६।१।१३४

सः इत्येतस्य अचि परतः सुलोपो भवति, लोपे सति चेत् पादः पूर्यते। सेदु राजा क्षयते चर्षणीनाम्। सौषधीरनुरुध्यसे। लोपे चेत् पादपूरणम् इति किम्? स इव व्याघ्रो भवेत्। अचि इति वस्पष्टार्थम्। पादग्रहणेन अत्र श्लोकपादस्य अपि ग्रहणं केचिदिच्छन्ति, तेन इदं सिद्धं भवति। सैष दाशरथी रामः सैष राजा युधिष्ठिरः। सैष कर्णो महात्यागी सैषा भीमो महाबलः।
लघु-सिद्धान्त-कौमुदी
सोऽचि लोपे चेत्पादपूरणम् ११५, ६।१।१३०

स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत। सेमामविड्ढि प्रभृतिम्। सैष दाशरथी रामः॥
लघु-सिद्धान्त-कौमुदी
इति विसर्गसन्धिः ११५, ६।१।१३०

इति पञ्चसन्धिप्रकरणम्।
लघु-सिद्धान्त-कौमुदी
अथ षड्लिङ्गेषु अजन्तपुंल्लिङ्गाः ११५, ६।१।१३०

न्यासः
सोऽचि लोपे चेत्पादपूरणम्?। , ६।१।१३०

सोऽचीति पूर्ववत्? तस्य प्रथमैकवचनान्तस्यानुकरणम्()। पादपूरणम्()=पादनिष्पत्तिः। ननु चारम्भसामथ्र्यादेवाचि विज्ञायते, हलि हि पूर्वोणैव सिद्धत्वात्(), तत्? किमर्थमचीति क्रियते? इत्याह-"अचीति विस्पष्टार्थम्()" इति। "केचिदिच्छन्ति" इति। ते च्छन्दोग्रहणं नानुवत्र्तयन्तीति॥
बाल-मनोरमा
सोऽचि लोपे चेत्पादपूरणम् ३५२, ६।१।१३०

सोऽचि। "स" इति प्रथमैकवचनान्तस्वरूपपरं , ततः षष्ट()आ लुक्। एवञ्च "सस्"-शब्दस्येति लभ्यते। "सुलोप" इत्यनुवर्तते। तदाह-सस् इत्यादिना।

***** इति बालमनोरमायां स्वादिसन्धिः *****

अथ स्वादयः।

अथ श्नुविकरणा धातवो निरूप्यन्ते। षुञ्धातुः षोपदेशः। अनिट्। इत आरभ्य ञित्त्वादुभयपदिनः। सुरासन्धानमिति। सुरोत्पादनमित्यर्थः।

तत्त्व-बोधिनी
सोऽचि लोपे चेत्पादपूरणम् १५२९, ६।१।१३०

सोऽचि लोपे। "अचीति विस्पष्टार्थ"मिति वृत्तौ स्थितम्। "सस्िति तच्छब्दस्य प्रथमैकवचनान्तस्यानुकरणं लुप्तषष्ठीक्रमित्याह--स इत्यस्येति। बहुलग्रहणेति। अतएव लोपं विना पादपूरणेऽपि क्वचिद्भवति-"सास्मा अरम्" इति। अत्र वदन्ति--ये तु "सोऽहमाजन्मशुद्धना"मित्यादिसिध्द्यर्थं "पादश्चेल्लोपे सत्येव पूर्येते"ति सावधारणं व्याचख्युस्तेषां "सास्मा अर"मित्यादौ सलोपानापत्तिः। अत्र हि "सः-अस्मै" इति च्छेदः। बहुलग्रहणानुवृत्त्या तदुपपादने तु "सोऽहमाजन्मे"त्याद्येव तथोपपाद्यतां, किमवधारणेनेति।

* इति तत्त्वबोधिन्यां स्वादिसन्धिप्रकरणम्। *