पूर्वम्: ६।१।१२४
अनन्तरम्: ६।१।१२६
 
सूत्रम्
अप्लुतवदुपस्थिते॥ ६।१।१२५
काशिका-वृत्तिः
अप्लुतवदुपस्थिते ६।१।१२९

उपस्थितं नाम अनार्षः अतिकरणः, समुदायादवच्छिद्य पदं येन स्वरूपे ऽवस्थाप्यते। तस्मिन् परतः प्लुतः अप्लुतवद् भवति। प्लुतकार्यं प्रकृतिभावं न करोति। सुश्लोक३ इति सुश्लोकेति। सुमङ्गल३ इति सुमङ्गलेति। वत्करणं किम्? अप्लुत इति उच्यमाने प्लुत एव प्रतिषिद्यते। तत्र को दोषः? प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात्, अग्नी३ इति, वायू३ इति।
न्यासः
अप्लुतवदुपस्थिते। , ६।१।१२५

ऋषौ=वेदे भव आर्षः, तस्मादन्यो लौकिकोऽनार्षः। "समुदायात्()" इति। वाक्यादित्यर्थः। कुत एतत? पदरहितस्य वक्यस्याप्रयोगात्()। वाक्यस्य च समुदयात्मकत्वात्()। "अवच्छिद्य" इति। पृथक्? कृत्वेत्यर्थः। "स्वरूपे व्यवस्थाप्यते" [स्वरूपेऽवस्थाप्यते--काशिका] इति। शब्दपदात्मकतायां व्यवस्थाप्यत इत्यर्थः। "अप्लुतवत्()" इति। अप्लुतेन तुल्यं वत्र्तत इत्यप्लुतवत्()। येन साधम्र्येणाप्लुतवद्भवति तद्दर्शयितुमाह--"प्लुतकार्यम्()" इत्यादि। तदनेन प्लुतकार्यस्यार्थं प्रतिषेधः, न तु प्लुतस्येति दर्शितं भवति। "सुश्लोका ३" इति। "दूराद्धूते च" ८।२।८४ इति प्लुतः। "सुश्लोका" इति। प्लुतकार्यस्याकरणादेकादेशो भवत्येव। ननु चैकादेशेनापि न भवितव्यम्(), तस्यापि प्लुतकार्यत्वात्()? नैतदस्ति; एवं हि वचनस्य वैयथ्र्यं स्यात्()। तस्मात्? प्लुतसंशब्दनेनैव प्लुतस्य यत्कार्यं विहितं तस्यैव प्रतिषेधः, न सर्वस्य प्लृतकार्यस्य। न चैकादेश एवं विहितः। "वत्करणं किम्()" इति। कार्यमात्रस्य प्रतिषेधे सति प्लुतस्य धवणं यथा स्यादित्येवमर्थं वत्करणं स्यात्()। सत्यपि च कार्यमात्रस्य प्रकृतिभावस्य प्रतिषेधेनैव प्लुतश्रुत्या भवितव्यम्(); एकदेशेन निवर्त्तितत्वात्()। तत्? कस्मात्? प्लुतस्यैव प्रतिषेधो न क्रियत इत्यभिप्रायः। प्लुतप्रतिषेधे वक्ष्यमाणं दोषं चेतसि कृत्वाऽ‌ऽह--"प्लुत इत्युच्यमाने" इत्यादि। "तत्र को दोषः" इति। यो वत्करणे सति न भवतीति भावः। "प्रगृह्राश्रये" इत्यादि। प्रगृह्र आश्रयो यस्य तस्मिन्? प्रतिभावे सति प्रगृह्रसंज्ञको यः प्लुतस्तस्य श्रवणं न स्यात्(), यदि प्लुत एव प्रतिषिध्येत। वत्करणे तु सति प्लुतकार्यस्यायं प्रतिषेधो भवति न प्लुतस्यैव। तत्र प्लुताश्रये प्रकृतिभावे प्रतिषिद्धेऽपि प्रगृह्राश्रयस्याप्रतिषिद्धत्वादसत्येकादेश एव दोषो न भवति। "अग्नी इति"। "इदूदेद्()द्विवचनम्()" १।१।११ इत्यादिना प्रगृहयसंज्ञा, "गुरोरनृत" ८।२।८६ इत्यादिना प्लुतः॥
बाल-मनोरमा
अप्लुतवदुपस्थिते ९९, ६।१।१२५

तदाह--उपस्थितोऽनार्ष इति। अप्सुतवद्भावस्य प्रयोजनमाह--प्लुतकार्यं प्रकृतिभावमिति। "अप्लुतकार्यं यणादिकं करोती"ति पाठान्तरम्। सुश्लोकं३ इतीति। तैत्तिरीये "सुश्लोक३" इति प्लुतान्तो मन्त्रः पठितः। पदकालेऽवग्रहे तस्मात्परत इतिशब्दं पदकाराः पठन्ति। तत्र "सुश्लोक३ इती"ति स्थितेऽप्लुतवद्भावेन प्रकृतिभावाऽभावे सत्याद्गुणे सुश्लोकेतीति भवति। अत्रेतिशब्दः पदकारप्रक्षिप्तत्वादवैदिकः। तदेव "सुश्लोकेति" इत्युदाहरणं भाष्ये स्थितम्। पदकारास्तु "सुश्लोक३ इति सुश्लोक३ इती"त्येव अवगृह्णन्ति। तदपि संहिताया अविवक्षितत्वान्निर्वाह्रम्। संहितायामेव यणादिसन्धिविधानात्। वत्किमिति। "अप्लुत्तव"दित्यत्र वद्ग्रहणस्य किं प्रयोजनमिति प्रश्नः। उत्तरमाह--अप्लुत इत्यादिना। वद्ग्रहणं विहायाऽप्लुत उपस्थित इत्युक्तेप्लुतस्य स्थानेऽप्लुत एव विधीयते। अतः प्लुत एव निवर्तेत। ततश्च अग्नी३ इतीत्यत्र सम्बोधनप्रथमाद्विवचनान्तस्यानुकरणे प्रगृह्र ईकारस्त्रिमात्रो न श्रूयते। वत्करणे तु प्लुतकार्यस्य प्रकृतिभावस्यैव निवृत्तिर्गम्यते न तु प्लुतस्यापीति नोक्तदोष इत्यर्थः।

तत्त्व-बोधिनी
अप्लुतवदुपस्थिते ७९, ६।१।१२५

यणादिकं करोतीति। अत्र नव्याः-"यद्येवम् "अग्नी इति " विष्णू इति " इत्यत्र प्रगृह्राश्रयं प्रकृतिभावं बाधित्वा परत्वादनेन यणादिकार्यं स्यात्, ततश्च वत्करणप्रयोजन यणादिकमेव स्यात्, तस्मात् "प्लुतकार्यं प्रकृतिभावं न करोतीत्यर्थः" इति प्राचां व्याख्यैव ज्यायसी। एवं च "इको यणची"त्यत्रेग्ग्रहणस्य वैयथ्र्यशङ्रकाऽपि नास्ति। तथाहि--तत्रेग्ग्रहणाऽभावेऽपि "ह्यस्वस्य पिति कृति तुक्" "दीर्घा"दित्यतो ह्यस्वदीर्घपदानुवृत्त्या तयोर्यण्विधानान्न व्यञ्जनस्य भविष्यति। प्लुतस्य तु प्रकृतिभावेनैव न भवितव्यमेव।?योदयोऽपवादा "हरय" इत्यादौ। "उपेन्द्रः" "कृष्णैकत्व"मित्यादौ तु "आद्गुणः" "वृद्धिरेचि" इति बाधके भविष्यतः। यथा सत्यपीग्ग्रहणे "श्रीश" इत्यादौ सवर्णदीर्घत्वं बाधकम्। अतो नार्थ इग्ग्रहणेन। तथापि "एहि करभोरु ३ इति" "सुतनु ३ इति" चिनुहि ३ अत्रे"त्यादौ "अप्लुतवदुपस्थिते" "ई ३ चाक्रवर्मणस्ये"ति प्रकृतिभावनिषेधेऽपि आभ्यां यणादिकार्याऽविधानात् प्लुतस्याऽस्य यण्न स्यात्। ह्यस्वदीर्घपदाननुवृत्तौ तु व्यञ्जनस्य स्यात्। तस्मादिग्ग्रहणं व्यर्थमिति न शक्यते शङ्कितु"मित्याहुः। अन्ये त्विग्ग्रहणस्य प्रयोजनान्तरमप्याहुः,-इको यणेव क्वचिद्यथा स्याद्यदन्यत्प्राप्नोति तन्मा भूत्। किंचाऽन्यत् प्राप्नोति?, "इकोऽसवर्णे" इति शाकलम्। एवं च यदुक्तं "न समासे" "सिति चे"ति, तदनेन सङ्गृहीतं भवती"ति।