पूर्वम्: ६।१।१४०
अनन्तरम्: ६।१।१४२
 
सूत्रम्
आस्पदं प्रतिष्ठायाम्॥ ६।१।१४१
काशिका-वृत्तिः
आस्पदं प्रतिष्ठायाम् ६।१।१४६

आत्मयापनाय स्थानं प्रतिष्ठा, तस्याम् आस्पदम् इति सुट् निपात्यते। आस्पदम् अनेन लब्धम्। प्रतिष्थायाम् इति किम्? आ पदातापदम्।
न्यासः
आस्पदं प्रतिष्टायाम्?। , ६।१।१४१

"आत्मयापनाय" इति। आत्मयापनम्()=प्राणधारणम्()। तदर्थं यत्? स्थापनं तत्? प्रतिष्ठेत्युच्यते। "आसपदम्()" इति। आङः परस्य पदस्य सुट्? निपात्यते। "आपदम्()" इति। "आङ्? मर्यादावचने" १।४।८८ इत्याङः कर्मप्रवचनीयत्वम्(), तद्योगे "पञ्चम्यपाङ्? परिभिः" २।३।१० इति पञ्चमी, तदन्तेन "आङ् मर्यादाभि विध्योः" २।१।१२ इत्यव्ययीभावसमासः॥
बाल-मनोरमा
आस्पदं प्रतिष्ठायाम् १०४६, ६।१।१४१

आस्पदं प्रतिष्ठायाम्। आत्मेति। आत्मयापनं=शरीरसंरक्षणं, तदर्थं यत् स्थानं तस्मिन् गम्ये सुडित्यर्थः। आपदादापदमिति। आ पदादिति विग्रहे अव्ययीभावे आपदमिति भावतीत्यर्थः। "आपदापद"मिति पाठे तु-आपदमित्यस्य आपदित्यर्थ इत्यर्थः।