पूर्वम्: १।४।८७
अनन्तरम्: १।४।८९
 
प्रथमावृत्तिः

सूत्रम्॥ आङ् मर्यादावचने॥ १।४।८८

पदच्छेदः॥ आङ् १।१ मर्यादावचने ७।१ कर्मप्रवचनीयाः १।३ ८२ निपाताः १।३ ४६

काशिका-वृत्तिः
आङ् मर्यादावचने १।४।८९

आङित्येषा शब्दो मर्यादावचने कर्मप्रवचनीयसंज्ञो भवति। अवधिर्मर्यादा। वचनग्रहणादभिविधिरपि गृह्यते। आ पाटलिपुत्राद् वृष्टो देवः। आ कुमारं यशः पाणिनेः। आ सांकाश्यात्। आ मथुरायाः। मर्यादावचने इति किम्? ईषदर्थे क्रियायोगे च मा भूत्।
न्यासः
आङ् मर्यादावचने , १।४।८८

यत्राङो मर्यादायामभिविधौ च कार्यमिच्छति तत्रोभयोरपि ग्रहणं करोति, यथा-- "आङ मर्यादाभिविध्योः" २।१।१२ इत्यादि। इह तु मर्यादाग्रहमेव कृतम्, नाभिविधिग्रहणम्, अतोऽभिविधावनया संज्ञया न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह-- "वचनग्रहणात्" इत्यादि। वचनग्रहणे हि सति बहुव्रीहिर्लभ्यते। "मर्यादा" इत्येतद्वचनं यत्र सूत्रे तन्मर्यादावचनम्। तत्रायमर्थो भवति-- यत्र मर्यादाग्रहणमस्त सूत्रे, तत्र य आङ स कर्मप्रवचनीयसंज्ञो भवति। तत्पुनः सूत्रम्-- "आह मर्यादाभिविध्योः" २।१।१२ इत्येतत्-- तत्र चाङ मर्यादाभिविध्योर्वत्र्तमान उपात्त इत्युभयत्रापि भवति। कः पुनर्वर्जनस्य मर्यादाश्च विशेषः, येन पूर्वसूत्रे वर्जनमभिधायेह मर्यादाग्रहणं करोति? अयमस्ति विशेषः-- वर्जने हि तत्परित्यागेनान्यत्र सामान्येन वर्षणादिना सम्बन्धो गम्यते, यथा-- आ त्रिगत्र्तेभ्यो वृष्टो देव इति, अत्र हि यस्यां दिशि व्यवस्थितो वक्तेदं वाक्यं प्रयुङ्क्ते तस्यां दिशि यो देशो यस्तथान्यासु दिक्षु तत्र सर्वत्रैव त्रिगर्तान्? वर्जयित्वा वृष्ट इति गम्यते। मर्यादायां त्विदं वाक्यं प्रयुङक्ते-- आ पाटलिपुत्राद्()वृष्टो देव इति, तत्सम्बन्धिन्यामेव दिशि यो व्यवस्थितो देशस्तस्य देशस्य वर्षणेन सम्बन्धरः प्रतीयत इत्येष विशेषः। "ईषदर्थे क्रियायोगे मा भूत्" इति। ईषदर्थ आकडार इति। क्रियायोगे समाहरतीति। पूर्वत्र संज्ञाया अभावात्पञ्चमी न भवति। इतरत्र "गतिर्गतौ" ८।१।७० इति निघातो भवति। यस्तु वाक्यस्मरणयोराकारो वत्र्तते, तस्याङित्त्वादिह ङकारोच्चारणादेव संज्ञाया अप्रसक्तिः॥
बाल-मनोरमा
आङ्मर्यादावचने ५८९, १।४।८८

आङ्मर्यादावचने। उक्तसंज्ञ इति। कर्मप्रवचनीयसंज्ञक इत्यर्थः। ननु "आङ्मर्यादायामि"त्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह--वचनग्रहणादिति। तेन विनेति मर्यादा। तेन सहेत्यभिविधिः। मर्यादाशब्दो यत्रोच्यते तन्मर्यादावचनम्=ाङ्मर्यादाभिविध्योः" इति सूत्रम्। तत्र य आङ् दृष्टः स कर्मप्रवचनीयसंज्ञकः स्यादित्यर्थः। तथाच मर्यादिभिविध्योराङ् कर्मप्रवचनीय इति फलतीति भावः।