पूर्वम्: ६।१।१४७
अनन्तरम्: ६।१।१४९
 
सूत्रम्
प्रस्कण्वहरिश्चन्द्रावृषी॥ ६।१।१४८
काशिका-वृत्तिः
प्रस्कण्वहरिश्चन्द्रावृषी ६।१।१५३

प्रस्कण्व हरिश्चन्द्र इति सुट् निपात्यते ऋषी चेदभिधेयौ भवतः। प्रस्कण्व ऋषिः। हरिश्चन्द्र ऋषिः। हरिश्चन्द्रग्रहणम् अमन्त्रार्थम्। ऋषी इति किम्? प्रकण्वो देशः। हरिचन्द्रो माणवकः।
न्यासः
प्रस्कण्वहरिश्चन्द्रावृषी। , ६।१।१४८

"प्रस्कण्वहरिश्चन्द्रौ" इति। प्रकृष्टः कण्वोऽस्येति प्रसकण्वः। हरिश्चन्द्रोऽस्येति हरिश्चन्द्रः। व्युत्पत्तिमातरमेतत्? कृतम्(), न त्वत्रावयवार्थोऽस्ति। रूढिशब्दौ ह्रेतौ प्रत्यस्तमितावयवार्थौ क्वचिदेव ऋषिविशेषे वर्तेते। ननु च हरिश्चन्द्रे "ह्यस्वाच्चन्द्रोत्तरपदे" (६।१।१५१) इत्यनेनैव सुट्? सिद्धः, तत्किमर्थं हरिश्चन्द्रग्रहणम्()? इत्यत आह--"हरिश्चन्द्रग्रहणम्()" इत्यादि। "प्रकण्वः" इति। प्रगतः कण्वोऽस्मादिति प्रकण्वः। हरिरिव चन्द्रोऽस्येति हरिचन्द्रः॥
बाल-मनोरमा
प्रस्कण्वहरिश्चन्द्रावृषी १०५२, ६।१।१४८

प्रस्कण्वहरिश्चन्द्रावृषी। अमन्त्रार्थमिति। मन्त्रे तु "ह्यस्वाच्चन्द्रोत्तरपदे मन्त्रे" इति पूर्वसूत्रेणैव सिद्धमिति भावः। तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते।

तत्त्व-बोधिनी
प्रस्कण्वहरिश्चन्द्रावृषी ८७८, ६।१।१४८

अमन्त्रार्तमिति। मन्त्रे तु "ह्यस्वाच्चन्द्रोत्तरपदे मन्त्रे"इत्यनेनैव सिद्ध्यतीति भावः।