पूर्वम्: ६।१।१४८
अनन्तरम्: ६।१।१५०
 
सूत्रम्
मस्करमस्करिणौ वेणुपरिव्राजकयोः॥ ६।१।१४९
काशिका-वृत्तिः
मस्करमस्करिणौ वेणुपरिव्राजकयोः ६।१।१५४

मस्कर मस्करिनित्येतौ यथासङ्ख्यं वेणौ परिव्राजके च निपात्येते। मकरशब्दो ह्यव्युत्पन्नं प्रातिपदिकम्, तस्य वेणौ अभिधेये सुट् निपात्यते, परिव्राजके त्विनिः अपि। मस्करः वेणुः। मस्करी परिव्राजकः। वेणुपरिव्राजकयोः इति किम्? मकरो ग्राहः। मकरी समुद्रः। केचित् पुनरत्र माङि उपपदे करोतेः करणे ऽच्प्रत्ययम् अपि निपातयन्तिक् माङ्श्च ह्रस्वत्वम् सुट् च। मा क्रियते येन प्रतिषिध्यते स मस्करो वेणुः। वेणुग्रहणं च प्रदर्शनार्थम् अन्यत्र अपि भवति, मस्करो दण्डः इति। परिव्राजके अपि माङि उपपदे करोतेस्ताच्छील्ये इनिर्निपात्यते, माङो ह्रस्वत्वं सुट् च तथा एव। माकरणशीलो मस्करी कर्मापवादित्वात् परिव्राज्क उच्यते। स ह्येवम् आह मा कुरुत कर्माणि शान्तिर्वः श्रेयसी इति।
न्यासः
मस्करमस्करिणौ वेणुपरिव्राजकयोः। , ६।१।१४९

"परिव्राजके तविनिरपि" इति। निपात्यत इत्यपेक्षते। किं पुनः कारणम्()? न प्राप्नोतीति, मात्वार्थामावात्()। अविद्यमानमस्करोऽपि परिव्राजको मस्करीतयुचयते; मस्करिशब्दस्य तत्रैव रूढत्वात्()। "अच्प्रत्ययमपि निपातयन्ति" इति कत्र्तर्युच्यमानः करणे न प्राप्नोतीत्यच्प्रत्ययमपि निपातयन्ति। यदि चेह वेणौ मस्करशब्दो निपत्यते तदा दण्डे न प्राप्नोति, तत्रापि चासौ लोके प्रयुज्यते? इत्याह--"वेणुग्रहणम्()" इत्यादि। येन निवार्यते तदपलक्षणार्थं वेणुग्रहणम्()। दण्डेनापि निवार्यत इत्यत्रापि भवत्येव। "कमपिवादित्वात्()" इति। सांसारिकं फलं कर्मं। तदपददितुं प्रतिषेद्धं शीलं यस्य स कर्मापवादी, तस्य भवाः कर्मापवादित्वम्()। "स हि" इत्यादिना तदेव कर्मापवादित्वं दर्शयति॥
बाल-मनोरमा
मस्करमस्करिणौ वेणुपरिव्राजकयोः १०५३, ६।१।१४९

मस्करमस्करिणौ। यथासंख्यमन्वयः। मस्करिग्रहणात्परिव्राजक एव मस्करिशब्दः, अन्यत्र तु मकरीत्येवेत्याहुः।

तत्त्व-बोधिनी
मस्करमस्करिणौ वेणुपरिव्राजकयोः ८७९, ६।१।१४९

मस्कर। मस्करशब्दादिनिना मत्वर्थीयेनेष्टसिद्धौ मस्करिग्रहणं "परिव्राजक एवायं प्रयोगो यथा स्या"दित्येवमर्थमित्याहुः।