पूर्वम्: ६।१।१७७
अनन्तरम्: ६।१।१७९
 
सूत्रम्
नृ चान्यतरस्याम्॥ ६।१।१७८
काशिका-वृत्तिः
नृ च अन्यतरस्याम् ६।१।१८४

नृ इत्येतस्मात् परा झलादिर् विभक्तिः अन्यतरस्यां न उदात्ता भवति। नृभ्याम्। नृभिः। नृभ्यः। नृषु झलित्येव न्रा। न्रे।
न्यासः
नृ चान्यतरस्याम्?। , ६।१।१७८

नृशब्दात्? "सावेकाचः" ६।१।१६२ इति, "न गो()आन्सावर्ण"६।१।१७६ इति नित्ये प्रतिषेधे च प्राप्ते विभाषेयमारभ्यते॥