पूर्वम्: ६।१।१९३
अनन्तरम्: ६।१।१९५
 
सूत्रम्
अन्तश्च तवै युगपत्॥ ६।१।१९४
काशिका-वृत्तिः
अन्तश् च तवै युगपत् ६।१।२००

तवैप्रत्ययान्तस्य अन्तः, चशब्दादादिश्च युगपदुदात्तौ भवतः। कर्तवै। हर्तवै। प्रत्ययाद्युदात्तत्वापवादः। युगपद्ग्रहणं पर्यायनिवृत्तयर्थम्। एकवर्जम् इति वचनाद् यौगपद्यं न स्यात्।
न्यासः
अन्तश्चे तवै युगपत्?। , ६।१।१९४

"कत्र्तवा" ["कत्र्तवै" इति काशिका, पदमञ्जरी च] इति। "कृत्यार्थे तवैकेन्केन्यतावनः" ३।४।१४ इति तवैप्रत्ययः। किं पुनः कारणं पर्यायनिवृत्तये यत्नः क्रियते? इत्याह--"एकवर्जम्()" इत्यादि॥