पूर्वम्: ६।१।१९९
अनन्तरम्: ६।१।२०१
 
सूत्रम्
शुष्कधृष्टौ॥ ६।१।२००
काशिका-वृत्तिः
शुष्कधृष्तौ ६।१।२०६

आदिः उदात्तः इति वर्तते। शुष्क धृष्ट इत्येतावाद्युदात्तौ भवतः। शुष्कः। धृष्टः। असंज्ञार्थ आरम्भः।
न्यासः
शुष्कधृष्टौ। , ६।१।२००

"शुष्कः" इति। "शुष शोषणे" (धा।पा।११८३) "शुषः कः" ८।२।५१ इति क्तस्य कादेशः। "धृष्टः" इति। ञिधृषा प्रागल्भ्ये" (धा।पा।१२६९) ष्टुत्वम्()। कत्वष्टुत्वयोरसिद्धत्वादिह निष्ठान्तत्वं वेदितव्यम्()। "असंज्ञार्थं आरम्भः" इति। संज्ञायां पूर्वेणैव सिद्धत्वात्()॥