पूर्वम्: ६।१।३२
अनन्तरम्: ६।१।३४
 
सूत्रम्
बहुलं छन्दसि॥ ६।१।३३
काशिका-वृत्तिः
बहुलं छन्दसि ६।१।३४

हवः इति वर्तते। छन्दसि विषये ह्वयतेर् धातोर् बहुलं संप्रसारणं भवति। इन्द्राग्नी हुवे। देवीं सरस्वतीं हुवे। ह्वेञो लटि आत्मनेपदोत्तमैकवचने बहुलं छन्दसि इति शपो लुकि कृते सम्प्रसारणमुवङादेशश्च। न च भवति। ह्वयामि मरुतः शिवान्। ह्वयामि देवां।
न्यासः
बहुलं छन्दसि। , ६।१।३३