पूर्वम्: ६।१।४०
अनन्तरम्: ६।१।४२
 
सूत्रम्
ज्यश्च॥ ६।१।४१
काशिका-वृत्तिः
ज्यश् च ६।१।४२

ल्यपि इत्येव। ज्या वयोहानौ इत्यस्य धातोः ल्यपि परतः सम्प्रसारणं न भवति। प्रज्याय। उपज्याय।
न्यासः
ज्यश्च। , ६।१।४१

तत्त्व-बोधिनी
ज्यश्च १६०६, ६।१।४१

ज्यश्च। संप्रसारणं न स्यात्। एवं व्यश्चेत्यत्रापि व्याख्येयम्।