पूर्वम्: ६।१।४१
अनन्तरम्: ६।१।४३
 
सूत्रम्
व्यश्च॥ ६।१।४२
काशिका-वृत्तिः
व्यश् च ६।१।४३

ल्यपि इत्येव। व्येञ् संवरणे इत्येतस्य धातोः ल्यपि परतः सम्प्रसारणं न भवति। प्रव्याय। उपव्याय। योगविभागः उत्तरार्थः।
न्यासः
व्यश्च। , ६।१।४२

"योगविभाग उत्तरार्थः" इति। उत्तरत्र व्येञ एव विभाषा सम्प्रसारणं यथा स्यात्(), "ज्या" इत्यस्य मा भूदित्येवमर्थो योगविभागः॥