पूर्वम्: ६।१।६
अनन्तरम्: ६।१।८
 
सूत्रम्
तुजादीनां दीर्घोऽभ्यासस्य॥ ६।१।७
काशिका-वृत्तिः
तुजादीनां दीर्घो ऽभ्यासस्य ६।१।७

तुजादीनाम् इति प्रकारे आधिशब्दः। कश्च प्रकारः? तुजेर् दीर्घो ऽभ्यासस्य न विहितः, दृश्यते च। ये तथाभूताः ते तुजादयः, तेषाम् अभ्यासस्य दीर्घः साधुर् भवति। तूतुजानः। मामहानः। अनड्वान् दाधार। व्रतं मीमाय। दाधार। स तूताव दीर्घश्च एषां छन्दसि प्रत्ययविशेषे एव दृश्यते, ततो ऽन्यत्र न भवति। तुतोज शबलान् हरीन्।
न्यासः
तुजादीनां दीर्घोऽभ्यासस्य। , ६।१।७

आदिशब्दोऽयमस्त्येव व्यवस्थायाम्(), अस्ति च प्रकारे, तत्र यदि व्यवस्थायां वत्र्तमानो गृह्रेत, तदा "तुज पिज हिंसायाम्()" (धा।पा।१५६६,१५६७) इत्यत आरभ्य ये पठितास्तेषामेव ग्रहणं स्यात्(); एवञ्च सौत्राणां गणान्तरपठितानाञ्च दीर्घो न स्यादित्येतदालोच्याह--"तुजादीनाम्()" इत्यादि। "प्रकार आदिशब्दः" इति। स च प्रकारोऽनिर्दिष्टत्वान्न ज्ञायत इति पृच्छति--"कश्च प्रकारः" इति। तुजो दीर्घत्वमित्यादिना प्रकारार्थत्वं दर्शयति। "ये तथाभूताः" इति। अनन्तरोक्तप्रकारमापन्ना इत्यर्थः। "दीर्घः साधुर्भवति" इति। एतेन सत एव दीर्घस्य साधुत्वमात्रमनेन क्रियते। न त्वपूर्वो दीर्घ इति दर्शयति। "तूतुजानः" इति। लिट्()। एतच्च प्रकारवाचिन आदिशब्दस्य परिग्रहाल्लभ्यते, तस्य कनाच्()। "मामहानः" इति। "मह पूजायाम्()" (धा।प।७३०) शेषं पूर्ववत्()। "दधान" [उदाहरणमिदं नास्ति--काशिका] इति। "डुधाञ्? धारणपोषणयोः" (धा।पा।१०९२)। "मीमाय" इति। "डुमिञ्? प्रक्षेपणे", (धा।पा।१२५०) लिट्? णल्()। "दधार" इति। "धृञ्? धारणे" (धा।पा।९००) "तूनाव" इति। "तु" इति सौत्रो धातुः; "तुरुस्तुशम्यम" ७।३।९५ इत्यादिसूत्रे पठितत्वात्()। "दीर्घश्चैषाम्()" इत्यादिना यस्य सत एव साधुत्वमनेन क्रियते, स च दीर्घश्छन्दस्येव दृश्यते, न भाषायाम्()। तत्रापि च्छन्दसि विषये प्रत्ययविषये कानजादौ, न प्रत्ययमात्रे। "ततोऽन्यत्र न भवति" इति। यथोक्ताद्विषयादन्यत्र न भवतीत्यर्थः। तुजेश्छन्दसि कानचि दृष्टः, ततोऽन्यत्र भाषायां छन्दस्यपि कानजादौ प्रत्ययान्तरे न भवति। यच्चैवं तेनास्यान्यत्राव्यापारः। सत एव दीर्घस्य साधुत्वमात्रमनेन विधीयते। न चान्यत्र दीर्घोऽस्ति यस्यानेन विधीयेत साधुत्वम्()। एतच्च प्रकारवाचिन आदिशब्दाल्लभ्यत इति। "तुतोज" इति। भाषायां प्रयोगः। यदि तर्हि च्छन्दसि सत एव दीर्घस्य साधुत्वमनेन विधीयते, "व्यत्ययो बहुलम्()" (३।१।८५) इत्यनेन सुब्ब्यत्ययस्य विहितत्वादपार्थकमेतत्()? नापार्थकम्(); तस्यैव प्रपञ्चार्थत्वात्()॥