पूर्वम्: ६।२।१६२
अनन्तरम्: ६।२।१६४
 
सूत्रम्
विभाषा छन्दसि॥ ६।२।१६३
काशिका-वृत्तिः
विभाषा ६।२।१६४

छन्दसि विषये बहुव्रीहौ समासे सङ्ख्यायाः परः स्तनशब्दो विभासा ऽन्तोदात्तो भवति। द्विस्तनां करोति द्यावापृथिव्योर्दोहाय चतुःस्तनां करोति पशूनां दोहायाष्टस्तनां करोति छन्दसां दोहाय।
न्यासः
विभाषा छन्दसि। , ६।२।१६३