पूर्वम्: ६।२।१९६
अनन्तरम्: ६।२।१९८
 
सूत्रम्
सक्थं चाक्रान्तात्॥ ६।२।१९७
काशिका-वृत्तिः
सक्थं च अक्रान्तात् ६।२।१९८

सक्थम् इति कृतसमासान्तः सक्थिशब्दो ऽत्र गृह्यते। सः अक्रान्तात् परो विभाषा अन्तोदात्तो भवति। गौरसक्थः, गौरसक्थः। श्लक्ष्णसक्थः, श्लक्ष्णसक्थः। अक्रान्तातिति किम्? चक्रस्क्थः। षचश्चित्वान् नित्यम् अन्तोदात्तत्वं भवति।
न्यासः
सक्थं चाक्रान्तात्?। , ६।२।१९७

"सक्थमिति" इति। "बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्? षच्()" (५।४।११३) इत्यनेन षच्? समासान्तो यस्य स सक्यिशब्दोऽत्र गृह्रते। "अक्रान्तात्()" इति। क्रशब्दो अन्तो यस्य सः क्रान्तः। न क्रान्तोऽक्रान्तः। "गौरसक्यः" इति। गौरशब्दः प्रज्ञाद्यणन्तत्वादन्तोदात्तः। "श्लक्ष्णसक्थः" इति। "कृत्यशूभ्यां क्स्नः" (द।उ।५।४९) इति प्रकृते "श्लिषेरच्चोपधायाः" (द।उ।५।५१) क्स्नप्रत्ययान्तः श्लक्ष्मशब्दः। तेनान्तोदात्तः। "चक्रसक्थः" इति। "करोतेः किन्? द्वे च" (द।उ।८।१०३) ["करोतेद्र्वे च"--द।उ।] इति चक्रशब्द आद्युदात्तः॥