पूर्वम्: ६।२।२८
अनन्तरम्: ६।२।३०
 
सूत्रम्
इगन्तकालकपालभगालशरावेषु द्विगौ॥ ६।२।२९
काशिका-वृत्तिः
इगन्तकालकपालभगालशरावेषु द्विगौ ६।२।२९

इगन्ते उत्तरपदे, कालवाचिनि, कपाल भगाल शराव इत्येतेषु च द्विगौ समासे पूर्वपदं प्रकृतिस्वरं भवति। इगन्त पञ्चारत्निः। दशारत्निः। पञ्चारत्नयः प्रमाणमस्य, दशारत्नयः प्रमाणमस्य इति तद्धितार्थे द्विगुः, प्रमाणे लः द्विगोर् नित्यम् इति मात्रचो लोपः। इगन्त। काल पञ्चमास्यः। दशमास्यः। पञ्च मासान् भृतो भूतो भावी वा इति तद्धितार्थे द्विगोर् यप् ५।१।८१। पञ्चवर्षः। दशवर्षः। वर्षाल् लुक् च ५।१।८७ इति ठञो लुक्। काल। कपाल पञ्चकपालः। दशकपालः। कपाल। भगाल पञ्चभगालः। दशभगालः। भगाल। शराव पञ्चशरावः। दशशरावः। संस्कृतं भक्षाः ४।२।१५ इति तद्धितार्थे एते समासाः द्विगोर् लुगनपत्ये ४।१।८८ इति कृताण्प्रत्ययलोपा द्रष्टव्याः। इगन्तादिषु इति किम्? पञ्चभिरश्वैः क्रीतः पञ्चाश्वः। दशाश्वः। द्विगौ इति किम्? परमारत्निः। परमशरावम्। पञ्चारत्न्यो दशारत्न्यः इति च यण्गुणयोः बहिरङ्गलक्षणयोरसिद्धत्वात् स्थानिवद्भावाद् वा द्विगुस्वर इगन्तलक्षणः प्रवर्तते।
न्यासः
इगन्तकालकपालभगालशरावेषु द्विगौ। , ६।२।२९

"तद्धितार्थे द्विगोर्यप्()" इति। "मासाद्व्यसि" ५।१।८० इत्यनुवत्र्तमाने "द्विगोर्यष्()" ५।१।८१ इति यप्()। "ठञो लुक्()" इति। प्राग्वतीयस्य। "पञ्चकपलः" इति। पञ्चसु कपालेषु संस्कृतः पुरोडाश इति "संस्कृतं भक्षाः" ४।२।१५ इत्यण्(), तस्य "द्विगोः" ४।१।८८ इत्यादिना लुक्()। "एते समासाः" इति। पञ्चकपाल इत्येवमादयो दशशरावपर्यन्ताः। "कृताष्प्रत्ययलोपा" इति। कृतोऽण्प्रत्ययलोपो येषां ते तथोक्ताः। पञ्()चदशशब्दावत्र "ग्रः संख्यायाः" (फि।सू।२।२८) इत्युदात्तौ। "पञ्चा()आः" इति। तद्धितार्थे समासः। "आर्हादगोपुच्छ" ५।१।१९ इत्यादिना ठक्()। "अध्यर्धपूर्व" ५।१।२८ इत्यादिना लुक्()। पञ्च शरावाण्यस्मिन्निति बहुव्रीहिः। अथेह कथं भवति()--पञ्चारत्न्यो दशारत्न्य इति, यवाता यणादेशे कृते गुणे च नात्रेगन्तमुत्तरपदम्()? इत्याह--"पञ्चारत्न्यः" इत्यादि। यद्? यण्गुणौ ह्रजादौ विभक्तौ परत इति ताविह बहिरङ्गौ, स्वरस्त्वन्तरङ्ग; प्राग्विभक्त्युत्पत्तेर्भावात्(), "असिद्धं बहिरङ्गमन्तरङ्गे" (व्य।प।४२)। तेन पञ्चारत्न्य इत्यत्रापि द्विगुस्वर इगन्तलक्षणः प्रवत्र्तते। "स्थानिवद्भावाद्वा" इति। "अचः परस्मिन्? पूर्वविधौ" १।१।५६ इति पूर्वस्वरे कत्र्तव्यो यो गुणः स्थानिवद्भावेनेगन्तलक्षणः प्रवर्तते। ननु च स्वरविधौ "न पदन्त" (१।१।५८) इत्यादिना स्थानिवद्भावः प्रतिषिध्यते? नैतदस्ति; "स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्()" इत्युक्तत्वात्? (का।१।१।५८) न चैवमिको यण्गुणौ लोपाजादेशौ। "पञ्चारत्न्यः" इति। अरत्निशब्दोऽत्र "कृदिकारादक्तिनः" (ग।सू।५०) "सर्वतोऽक्तिन्नर्थादित्येके" (ग।सू।५१) इति बह्वादिषु पाठान्ङीषन्तः। इहापि पूर्ववत्? तद्धितार्थे द्विगुः, मात्रचस्तु लोपः॥