पूर्वम्: ६।२।२
अनन्तरम्: ६।२।४
 
सूत्रम्
वर्णः वर्णेष्वनेते॥ ६।२।३
काशिका-वृत्तिः
वर्णो वर्नेष्वनेते ६।२।३

प्रकृत्या पूर्वपदम्, तत्पुरुषे इति च वर्तते। वर्णं वर्णवाचि पूर्वपदं वर्नवाचिष्वेव उत्तरपदेषू एतशब्दवर्जितेषु परतस् तत्पुरुषे समसे प्रकृतिस्वरम् भवति। कृष्णसारङ्गः। लोहितसारङ्गः। कृष्णकल्माषः। लोहितकल्माषः। कृषेर्वर्ने इति कृष्णशब्दो नक्प्रत्ययान्तः अन्तोदात्तः। लोहितशब्दो ऽपि रुहेरश्च लो वा इति इतन्प्रययान्तः आद्युदात्तः। वर्नः इति किम्? परमकृष्णः। वर्नेषु इति किम्? कृष्णतिलाः। अनेते इति किम्? कृष्णैतः। लोहितैतः।
न्यासः
वर्णौ वर्णोष्वनेते। , ६।२।३

"रुहे रश्च लो वा" इति। अत्र "ह्मश्याभ्यामितन्()" (द।उ।६।१२) इतीतनोऽनुवर्तनात्()। "परमकृष्णः" इति। अत्र समासान्तोदात्तत्वमेव॥